पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८८३
बालमनोरमा ।

प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम्। केशवः-केशी-केशिकः-केशवान् । “अन्येभ्योऽपि दृश्यते’ (वा ३२१०) । मणिवो नागविशेष । हिरण्यवो निधिविशेषः । “ अर्णसो लोपश्च' (वा ५०५३) । अर्णवः ।

१९१७ । गाण्ड्यजगात्संज्ञायाम् । (५-२-११०)

हृस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवमर्जुनस्य धनुः । अजगवं पिनाकः ।

१९१८ । काण्डाण्डादीरन्नीरचौ । (५-२-१११)

काण्डीरः । आण्डीरः ।

१९१९ । रजःकृष्यासुतिपरिषदो वलच् । (५-२-११२)

रजस्वला स्त्री । कृषीवलः । “वले' (सू १०४०) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । “ पर्षत्’ इति पाठान्तरम् । पर्षद्वलम् ।

'अन्येभ्योऽपि दृश्यते' (वा ३२१०) । भ्रातृवलः । पुत्रवलः । शत्रुवलः ।
'वले' (सू १०४०) इत्यत्र “संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः ।

सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्यानुवृत्त्यैव तत्सिद्धेरित्यत आह । प्रकृतेनेति॥ इनिठनोरिति ॥ इनिठनोरपीत्यर्थः । अन्यथा सिध्मादिभ्यश्चेत्यत्रैव मतुबेव समुच्चीयेत नत्विनि ठनाविति भावः । तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह । केशव इत्यादि ।। अन्येभ्योऽपीति ।। वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यते इत्यर्थः । अर्णस इति ।। वार्तिकमिदम्। अर्णसो वप्रत्ययः प्रकृतेः सकारश्चान्तादेश इत्यर्थः । अर्णव इति ॥ अर्णः जलम् । तत्प्रभूतमस्तीति विग्रहः । इदन्तु वार्तिकम्भाष्ये न दृश्यते । गाण्ड्यजगात्संज्ञायाम्॥ हृस्वदीर्घयोरिति ।। गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणोः गाण्ड्य इति युगपन्निर्देशः । ‘ख्यत्यात्परस्य’ इत्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दात् गाण्डीशब्दात् अजगशब्दाच्च मत्वर्थे यथासङ्ख्यं ईरन् ईरच्प्रत्ययश्च स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः । काण्डाण्डादीरन्नीरचौ ॥ काण्ड, आण्ड, अभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः । रजःकृषि ॥ रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच् स्यादित्यर्थः । आसुतीवल इति ॥ 'षुञ् अभिषवे' । आङ्पूर्वात् स्त्रियां क्तिन् । 'वले' इति दीर्घः । अन्येभ्योऽपीति । वार्तिकमिदम् । ‘रजःकृषि' इत्यादिसूत्रोपात्तादन्येभ्योऽपि वलच् दृश्यते इत्यर्थः । भ्रातृवल: ’ढ्रलोपे' इत्यतः अण इत्यनुवृत्तेः “वले' इति न दीर्घः । पुत्रवल १. भाष्ये न दृश्यते-इति शेखरकृत् । रूपसिद्धिस्तु पृषोदरादित्वात् ।