पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७८
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

मतोर्मस्य वः स्यात् । अहीवती । मुनीवती । “शरादित्वात्' दीर्घः ।

१९०० ॥ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती । (८-२-१२)

एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान्ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् । अस्थिमान न्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः सम्प्रसारणम् । कक्षीवान्नामर्षिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ।

१९०१ । उदन्वानुदधौ च । (८-२-१३)

उदकस्योदन्भावो मतावुदधौ संज्ञायां च । उदन्वान्समुद्रः ऋषिश्च ।

१९०२ । राजन्वान्सौराज्ये । (८-२-११४)

राजन्वती भूः । राजवानन्यत्र ।

१९०३ । प्राणिस्थादातो लजन्यतरस्याम् । (५-२-९६)

चूडालः-चूडावान् । 'प्राणिस्थात्' किम् । शिखावान्दीपः । “ आत: किम् । हस्तवान् । “ प्राण्यङ्गादेव' (वा ३१८९) । नेह । मेधावान् । प्रत्यय


नगरीविशेषस्य वा संज्ञा । शरादित्वादिति ॥ ‘शरादीनाञ्च' इति दीर्घ इत्यर्थे । आसन्दीवत् ॥ समाहारद्वन्द्वे ह्रस्वत्वं निपात्यन्ते इति कक्षीभावादिकमेवात्र निपात्यते । वत्वन्तु संज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसारणमिति निपात्यत इति शेषः । “न सम्प्रसारणे' इति सूत्रभाष्ये तु 'कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं वक्तव्यम्' इत्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छब्दपाठः अनार्ष इत्याहुः । उदन्वानुदधौ च ॥ उदधौ संज्ञायाञ्चेति ॥ वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितम् । संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् । राजन्वान् सौराज्ये ॥ सु शोभनो राजा यस्य देशस्य सः सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थे राजन्शब्दात् मतुपि “मादुपधायाः’ इति वत्वं सिद्धम् । नलोपाभावो निपात्यते । प्राणिस्थात् ॥ आदन्तात्प्राणिस्थवाचिनः शब्दात् मत्वर्थे लच् वा स्यादित्यर्थः । शिखावान् दीप इति ॥ अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाभावात् न लजिति भावः । प्राण्यङ्गादेवेति ॥ भाष्ये तथा वचनादिति भावः । ननु लचश्चित्करणं व्यर्थम् । चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह । प्रत्ययस्वरेणेति