पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८७७
बालमनोरमा ।

१८९६ । तसौ मत्वर्थे । (१-४-१९)

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । “ वसोः सम्प्रसारणम् (सू ४३५) । विदुष्मान् । “गुणवचनेभ्यो मतुपो लुगिष्ट:’ (वा ३१८५) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ।

१८९७ । मादुपधायाश्च मतोर्वोऽयवादिभ्यः । (८-२-९)

मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ।

१८९८ । झयः । (८-२-१०)

झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ।

१८९९ । संज्ञायाम् । (८-२-११)'


षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषाङ्ग्रहणात् जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनाञ्च ग्रन्थादिशब्दानाम् इह न ग्रहणमिति भावः । ‘रसिको नटः, स्पर्शिकं वारि' इत्यादि प्रयोगदर्शनात् इद सूत्रं भाष्ये प्रत्याख्यातम् । ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाभावेन भत्वाभावात् ‘वसोः सम्प्रसारणम्’ इति कथं सम्प्रसारणमित्यत आह । तसौमत्वर्थे ॥ मत्वर्थः प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्य आह । तान्तसान्ताविति ॥ तकारसकारान्तावित्यर्थः । गुणवचनेभ्य इति ।। वार्तिकमिदम् । गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दाः त एव गृह्यन्ते । नतु रूपादिशब्दा अपि । तेन रूपं वस्त्रमित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः । मादुपधायाश्च ॥ मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । म् च अश्चेति समाहारद्वन्द्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । मवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोः मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह । मवर्णेत्यादिना ॥ मान्तादुदाहरति । किंवानिति ॥ किमस्यास्मिन्वास्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति । ज्ञानवानिति ॥ अत्र तपरकरणाभावादाकारस्यापि ग्रहणमिति मत्वा आह । विद्यावानिति ॥ मोपधादुदाहरति । लक्ष्मीवानिति ।। अदुपधादुदाहरति । यशस्वानिति ।। “तसौ मत्वर्थे' इति भत्वान्न रुत्वम्। आकारोपधादुदाहरति । भास्वानिति ।। अथ विद्युत्वान् । मकारान्तत्वाभावान्मकाराकारो पधत्वाभावाच्च मादुपधाया इति वत्वाप्राप्तावाह । झयः ॥ अपदान्तत्वादिति ॥ 'तसौ मत्वर्थे' इति भत्वेन पदत्वबाधादिति भावः । संज्ञायाम् ।। अहीवतीत्यादिनदीविशेषस्य