१८२७ । तेन वित्तश्चुञ्चुप्चणपौ । (५-२-२६)
यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टः,तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुचुः । विद्याचणः ।
१८२८ । विनञ्भ्यां नानाञौ न सह । (५-२-२७)
असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना, नाना ।
१८२९ । वेः शालच्छङ्कटचौ । (५-२-२८)
क्रियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ।
१८३० । संप्रोदश्च कटच् । (५-२-२९)
सङ्कटम् । प्रकटम् । उत्कटम् । 'अलाबूतिलोमाभङ्गाभ्योरजस्युपसङ्ख्यानम्’ (वा ३१०७) । अलाबूनां रजः अलाबूकटम् । 'गोष्ठजादयः स्थानादिषु पशुनामभ्य:’ (वा ३१०९) । गवां स्थानं गोगोष्ठम् । “सङ्घाते कटच्' (वा ३११०) । अवीनां सङ्घातः अविकटः । “विस्तारे पटच्’ (वा
स्यादित्यर्थः । तेन वित्तः ॥ तृतीयान्तात् वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः प्रसिद्धः । चस्य नेत्संज्ञेति ॥ उपदेशे आदित्वाभावादिति भावः । विनञ्भ्याम् ॥ नसहेति सङ्घातः पृथक्त्वे वर्तते । प्रकृतिविशेषणमिदम् । तदाह । असहार्थे इति ।। तस्य विवरणं पृथग्भावे इति ।। वर्तमानाभ्यामित्यनन्तरं विनञ्भ्यामिति शेषः । स्वार्थ इति ॥ प्रत्ययार्थस्य अनिर्देशादिति भावः । प्रत्ययाविति ॥ यथासङ्ख्य नानाञाविति शेषः । विनेति ॥ वेर्नाप्रत्यये रूपम् । पृथगित्यर्थः । नानेति ॥ नञो नाञि आदिवृद्धौ रूपम् । पृथगित्यर्थः । नसहेत्यस्य प्रत्ययार्थत्वे तु नानेत्यनेन न सहेति गम्येत । एवं सति ननसह, किन्तु सहैवेत्यर्थः स्यात् । “द्वौ नञौ प्रकृतमर्थङ्गमयतः' इति न्यायात् इति भाष्ये स्पष्टम् । वेः शालच्छङ्कटचौ ॥ क्रियाविशिष्टेति ॥ क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्कटच्प्रत्ययौ स्त इति यावत् । इदञ्च भाष्ये स्पष्टम् । सम्प्रोदश्च कटच् ॥ सं, प्र, उत्, एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि ॥ सङ्कटं संहतमित्यर्थः । निबिडीकृतमिति यावत् । प्रत्कटमिति ॥ प्रज्ञातमित्यर्थः । प्रकाशमिति यावत् । उत्कटमिति ॥ उन्नतमित्यर्थः । अधिकामिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः । अलाबूतिलेति ॥ अलाबू, तिल, उमा, भङ्गा, इत्येभ्यः षष्ठ्यन्ते भ्यो रजसि अभिधेये कटचः उपसङ्खयानमित्यर्थः । विकारप्रत्ययानामपवादोऽयम् । रजः चूर्णरेणुः । गोष्ठजादय इति ।। पशुनामभ्यः स्थानादिष्वर्थेषु गोष्ठजादयः प्रत्यया
- उकारद्वयवान्-इति मनोरमा ।