पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९४५
बालमनोरमा ।

२१३४ । सुखप्रियादानुलोम्ये

सुखा करोति, प्रिया करोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ।

२१३५ । दुःखात्प्रातिलोम्ये । (५-४-६४)

दु:खा करोति । स्वामिनं पीडयतीत्यर्थः ।

२१३६ । शूलात्पाके । (५-४-६५)

शूला करोति मांसम् । शशूलेन पचतीत्यर्थः ।

२१३७ । सत्याद्दशपथे । (५-४-६६)

सत्या करोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ।

२१३८ । मद्रात्परिवापणे । (५-४-६७)

मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्रा करोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः । “भद्राच्चेति वक्तव्यम्’ (वा ३३४४) । भद्रा करोति । अर्थः प्राग्वत् । “परिवापणे' किम् । मद्रं करोति । भद्रं करोति । इति स्वार्थिकप्रकरणम्।

॥ इति तद्धिता ।।


बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह। निर्गतमित्यादि ॥ सुखप्रियादानुलोम्ये ॥ सुखशब्दाप्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादि चित्तानुवर्तनमानुलोम्यम् । सुखाकरोति, प्रियाकरोति गुरुमिति ।। चित्तानुवर्तनेन गुरुं सुखसम्पन्नं प्रियसम्पन्नञ्च करोतीत्यर्थः । तदाह । अनुकूलेति ॥ दुःखात् ॥ डाजिति शेषः । आराध्यप्रतिकूलाचरणम्प्रातिलोम्यम् । अन्यत्पूर्ववत् । शूलात्पाके ॥ डाजिति शेषः । शूला करोतीति ।। अत्र करोतिः पाके वर्तते । तदाह । शूलेन पचतीत्यर्थ इति ॥ सत्यादशपथे ॥ डाजिति शेषः । सत्या करोति भाण्डमिति ॥ रत्न्नादिद्रव्यजातमित्यर्थः । सत्यशब्दाऽत्र तथ्ये वर्तते| सत्यन्तथ्यमृतं सम्यक्' इत्यमरः । क्रेतव्यमितीति ॥ एतावतैव मूल्येन इदं क्रयणार्हं नातोऽधिकमूल्येनत्येवं यथाभूतार्थे वदतीत्यर्थः । सत्यङ्करोति विप्रः इति ।। शपथङ्करोतीत्यर्थः । मद्रात्परिवापणे ।। डाजिति शेषः । मद्रशब्दो मङ्गळार्थ इति । मङ्गळपर्यायः इत्यर्थ । परिवापणं मुण्डनमिति ॥ केशान्वपते इत्यादौ तथा दर्शनादिति भाव । माङ्गळयमुण्डनेनेति ॥ चौळेनेत्यर्थः । मद्रङ्करोति। भद्रङ्करोतीति ॥ क्षेमङ्करोतीत्यर्थः । अत्र परिवापणस्याप्रतीतेर्न डाजिति भावः ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां तद्धितप्रकरणं समाप्तम् । 119