पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९३९
बालमनोरमा ।

२११७ ॥ कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । (५-४-५०)

अभूततद्भाव इति वक्तव्यम्’ (वा ३३४०) । विकारात्मतां प्राप्नु वत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ।

२११८ । अस्य च्वौ । (७-४-३२ )

अवर्णस्य ईत्स्यात् चवौ । वेर्लोप । च्व्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः सम्पद्यते, तं करोति कृष्णी करोति । ब्रह्मी भवति । गङ्गी स्यात् ।


कृभ्वस्तियोगे ॥ अभूतेति ॥ येन रूपेण प्रागभूतं यद्वस्तु तस्य तदूपप्राप्तावित्यर्थः । एवञ्च यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकारभेदेन विवक्ष्यते । तत्रैवायम्प्रत्यय इति लभ्यते । सम्पद्यकर्तरत्येिकम्पदम् । सम्पदनं सम्पद्यः । सम्पूर्वकात्पदधातोरत एव निपातनात्। भावे कृत्संज्ञः शः, दिवादित्वात् इयन् । सम्पद्यस्य कर्तेति षष्ठीसमास । सम्पद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य सम्पत्तिरित्याकाङ्क्षायाम्, 'अभूततद्भावे' इति वार्तिकात् प्रकृतेर्विकाररूपेण सम्पत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः । नतु प्रकृतिवाचकात् । व्याख्यानात् । तथा च फलितमाह । विवकारात्मतामित्यादिना । वर्तमानादिति ॥ विकारवाचकशब्दस्य प्रकृतौ गौण्या वृत्त्या विद्यमानत्वं बोध्यम् । करोत्यादिभिरिति॥ डु कृञ् करणे, भू सत्तायाम्, अस भुवि' इति धातुभिर्योगे सतीत्यर्थः । च्विप्रत्यये चकार इत, इकार उच्चारणार्थः । अस्य च्वौ ॥ ईत्स्यादिति ॥ 'ई घ्राध्मोः' इत्यतः तदनुवृत्तेरिति भावः । वेर्लोप इति ॥ “वेरपृक्तस्य’ इत्यनेनेति शेषः । च्व्यन्तत्वादव्ययत्वमिति ॥ 'ऊर्यादिच्विडाचश्च' इति निपातत्वात् स्वरादिनिपातमित्यव्ययत्वमित्यर्थः । “तद्वितश्चासर्वविभक्तिः’ इत्यत्र ‘शस्प्रभृतयः प्राक् समासान्तेभ्यः’ इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृञ्योगे उदाहरति । कृष्ण इति ॥ वस्तुतः अकृष्ण: सन् वेषादिना कृष्णभावं प्राप्तोतीत्यर्थः । तं करोतीति ॥ अकृष्णं कृष्णरूपेण सम्पद्यमानङ्करोतीत्यर्थः । कृष्णी करोतीति ॥ अत्र वस्तुतः अकृष्णो नटः प्रकृतिभूत: । स तावत्कृष्णभावं विकारम्प्राप्नुवन् अभूततद्भावात्मकं विकारं सम्पद्यमानत्वात् सम्पद्यकर्ता भव इति तत्राभेदारोपमवलम्ब्य वर्तमानविकारभूतकृष्णवाचकः शब्दः । तस्मात् व्विप्रत्ययः, चकार इत्, इकार उचारणार्थः । तस्मिन्परे अकारस्य ईत्वम् । “वेरपृक्तस्य’ इति चकारलोपः । कृष्णीति ईकारान्तमव्ययम् । ब्रह्मी भवतीति ॥ अब्रह्म ब्रह्म सम्पद्यमानं भवतीत्यर्थः । ब्रह्मन्शब्दात् च्विः । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वान्नलोपः । ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिः । नतु सुबन्तादिति नियमः । अतो न च्वेः प्रातिपदिकादुत्पत्ति: । किन्तु सुबन्तादेवेति बोध्यम् । अत एव अगौर्गौः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्य ‘एडः पदान्तात्’ इति पररूपमुदाहृतं सङ्गच्छते इत्यलम् । गङ्गी स्यादिति ॥ अगङ्गा गङ्गात्वेन सम्पद्यमाना स्यादित्यर्थः । ‘अस्य च्वौ इतिईत्वम्। दोषाभूतम् अहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे । इह तु रात्रिरित्यर्थे