पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९२९
बालमनोरमा ।

अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्-प्राचीनम् । प्रत्यक्-प्रतीचीनम् । अवाक्-अवाचीनम् । 'निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः' इत्यमरः । अर्वन्तमञ्चतीति अर्वाक् -अर्वाचीनम् । 'अदिक्स्रियाम्' किम् । प्राची दिक् । उदीची दिक् । 'दिग्ग्रहणम्’ किम् । प्राचीना ब्राह्मणी । 'स्त्रीग्रहणम्’ किम् । प्राचीनं ग्रामादाम्राः ।

२०८१ । जात्यन्ताच्छ बन्धुनि । (५-४-९)

ब्राह्मणजातीय: । 'बन्धुनि' किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ।

२०८२ । स्थानान्ताद्विभाषा सस्थानेनेति चेत् । (५-४-१०)

सस्थानेन तुल्येन चेत्स्थानान्तमर्थवदित्यर्थः । पित्रा तुल्यः पितृस्थानीयः पितृस्थानः । 'सस्थानेन' किम् । गोः स्थानम्


तदाह । अदिक्स्त्रीवृत्तेरिति । प्रागिति ॥ अञ्चेर्लुकि लुप्तास्तात्यन्तमिदम् । प्राचिदेशे इत्यर्थे प्राचीनमिति खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तञ्च । इदन्तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याहृतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना आम्राः, प्राचीना वाटी, प्राचीनं वनमिति भवतीत्याहुः । अर्वन्तमञ्चतीति वक्ष्यन् अर्वच्छब्दं विवृणोति । निकृष्टेति ॥ अमरवाक्यमिदम् । प्राची दिगिति ।। लिङ्गविशिष्टपरिभाषया प्राप्तिः। दिग्ग्रहणङ्किमिति ।। अस्त्रियामित्येतावतैव प्राचीदिगित्यत्रातिप्रसङ्गनिरासात्किन्तेनेति प्रश्रः । अव्याप्तिपरिहारार्थमित्याह । प्राचीना ब्राह्मणीति ॥ नेयं दिग्रूपा स्त्री । किन्तु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणङ्किमिति ।। अदिशीत्येतावतैव प्राचीना ब्राह्मणीत्यत्राव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह । प्राचीनं ग्रामादाम्रा- इति ॥ स्थानिवत्सूत्रभाष्ये अयं प्रयोगः स्थितः । अत्र प्राच्यान्दिशीत्यर्थे लुप्तास्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वात् अस्त्रीति खो भवत्येवेति भावः । जात्यन्ताच्छ बन्धुनि ॥ छेति लुप्तप्रथमाकम् । जातिशब्दान्तात् प्रातिपदिकाद्बन्धुनि वर्तमानात् स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राह्मणजातीय इति ॥ ब्राह्मणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राह्मणजातिःशोभनेति ॥ ब्राह्मणत्वजातिरित्यर्थः । बध्यते ब्राह्मणत्वादिजातिर्व्यज्यतेऽस्मिन्निति बन्धु द्रव्यम्। ‘शॄस्वृस्निहि' इत्यादिना अधिकरणे उप्रत्ययः । तदाह । जातेर्व्यञ्जकंद्रव्यं बन्ध्विति ॥ आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्यते । बन्धुनीति नपुंसकनिर्देशादिति भावः । स्थानान्तात् ।। सस्थानेनेत्यस्य विवरणं तुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणार्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्तात् छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात् स्थानान्तात् छो वा स्यादिति यावत् । पितृस्थानीय