पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२८
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

अलङ्कर्मीणः । अलम्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वार्थिकाः प्रत्ययाः नित्यमिष्यन्ते' । 'तमबादयः प्राक्कनः । अन्यादयः प्राग्बुनः । आमाद्यः प्राङ्मयट: । बृहतीजात्यन्ताः समासान्ताश्च' इति भाष्यम् ।

२०८० । विभाषाञ्चेरदिक्स्त्रियाम् । (५-४-८)


आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्यः अध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः । अषडक्षीणो मन्त्र इति ॥ मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि षट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् । तदन्तादनेन स्वार्थे खः । द्वाभ्यामेवेति।। पुरुषाभ्यामिति शेषः । आशिताः इति ॥ ' अश भोजने' इत्यस्मादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः । पूर्वस्यमुमिति ॥ आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति ।। 'पर्यादयो ग्लानाद्यर्थे' इति चतुर्थीसमासात्ख, टिलोपः । अलम्पुरुषीण इति ।। अलम्पुरुषायेति विग्रहः । मातृभोगीण इत्यादाविव अषडक्षीणादौ णत्वम् । 'पदव्यवायेऽपि' इति निषेधस्तु न । पदव्यवाये इत्याश्रयणात् । ईश्वराधीन इति ।। ‘यस्मादधिकम्’ इति ईश्वरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः । 'समर्थनाम्' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारयति । नित्योऽयङ्ख इति ।। उत्तरेति ।। 'विभाषाञ्चेः’ इत्युत्तरसूत्रे 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आशिताः गावोऽस्मिन्निति अलङ्कर्मीणः इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् । तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् । प्रसङ्गादाह । अन्येऽपीति ।। इष्यन्ते इति ।। भाष्यकृतेति शेषः । तमबादयः प्राक्कन इति ॥ 'अतिशायने तमप्' इत्यारभ्य 'अवक्षेपणे कन्’ इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ञ्यादयः प्राग्वुन इति ॥ पूगाञ्ञ्योऽग्रामणीपूर्वात्' इत्यारभ्य 'पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्’ इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थ । आमादयः प्राङ्मयटइति ॥ 'किमेत्तिडव्ययघादाम्' इत्यारभ्य 'तत्प्रकृतवचने मयट्’ इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजात्यन्ता इति ॥ बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तु 'जात्यन्ताच्छ बन्धुनि' इति छो लक्ष्यते । बहुवचननिर्देशात् पाशबादयोऽपि “षष्ठ्या रूप्य च' इत्यन्ताः गृह्यन्ते इति कैयटः । वस्तुतस्तु परिगणिता एव नित्याः, नतु पाशबादयोऽपि । बृहतीजात्यन्ताः इति बहुवचनन्तु ‘बृहत्या आच्छादने' इति ‘जात्यन्ताच्छ बन्धुनि' इति च सूत्रयोर्मध्यगतेन 'अषडक्ष' इति सूत्रेण विहितङ्खप्रत्ययमभिप्रेत्येति न दोषः । 'विभाषाञ्चेः' इति उत्तरसूत्रे खविधौ विभाषाग्रहणन्तु तस्यापि बृहतीजात्यन्तराळवर्तित्वाविशेषात् नित्यत्वे प्राप्ते विकल्पार्थम् । अनित्योऽयङ्खः । उत्तरसूत्रेषु विभाषाग्रहणादिति मूलन्तु अभ्युच्चययुक्तिः इति शब्देन्दुशेखरे स्थितम् । विभाषाञ्चेरदिक्स्त्रियाम् ॥ अदिक्स्त्रियामिति कर्मधारयगर्भो नञ्तत्पुरुषः ।