पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९२७
बालमनोरमा ।

२०७६ । अनत्यन्तगतौ क्तात् । (५-४-४)

छिन्नकम् । भिन्नकम् । अभिन्नकम् ।

२०७७ । न सामिवचने । (५-४-५)

सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन्न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ।

२०७८ । बृहत्या आच्छादने । (५-४-६)

कन्स्यात् । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । 'आच्छादने' किम् । बृहती छन्दः ।

२०७९ । अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः । (५-४-७)

स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्निति आशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे


अचञ्चन्नपि यश्चञ्चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजलमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः । बृहदाख्यसामविशेषो वा । सुराया अहाविति ॥ गणसूत्रमिदम् । प्रकारवचनेन कन्निति शेषः । सर्पः अहावेवेति नियमार्थमिदम् । सुरक इति ॥ “केऽणः’ इति हस्वः । अनत्यन्तगतौ क्तात् ।। अत्यन्तगतिः अशेषावयवसम्बन्धः, तदभावः अनत्यन्तगतिः, तस्याङ्गम्यमानायां क्तान्तात्कन्नित्यर्थः । छिन्नचकमिति ॥ किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः । न सामिवचने ॥ वचनग्रहणं पर्यायलाभार्थमिति मत्वा आह । सामिपर्याये उपपदे इति ।। सामिकृतमिति ॥ सामीत्यव्ययमर्धे । ‘सामि’ इति समासः । अर्धकृतमिति ।। अर्धङ्कृतमिति कर्मधारयः । सामीत्यस्य क्रियाविशेषणत्वेन कारकत्वात् समुदायस्य क्तान्तत्वम् । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वात् ‘उक्तार्थानामप्रयोगः’ इति न्यायेन पूर्वसूत्रविहितस्य कनः अप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते । अनत्यन्तगतेरिति ॥ परिहरति । इदमेवेति ॥ तथापीति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्ययमनत्यन्तगताविति कनः प्रतिषेधः । किन्तर्हि, अत्यन्तस्वार्थिकस्य कनः। तत्र च इदमेव ज्ञापकम् । अन्यथा तद्वैयर्थ्यादिति भावः । बहुतरकमिति ॥ बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् । ‘तमबाद्यन्तात् स्वार्थे कन् वक्तव्यः' इति वचनेन यावादित्वाद्वा स्वार्थे कना बहुतरकं सुतरकमित्यादि सिद्धमिति तदाशयः । बृहत्या आच्छादने ॥ कन् इति शेषः । बृहत्येव बृहतिका । उत्तरीयं वासः । तदाह । द्वौ प्रावारेति ॥ अमरवाक्यमिदम् । अषडक्ष ॥ स्वार्थे इति ॥ शेषपूरणमिदम् । अषडक्ष,