पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२६
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०७३ । पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्लोपश्च । (५-४-१)

लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् ।'पादः पत्' (सू ४१४) । 'तद्धितार्थ–' (सू ७२८) इति समासे कृते प्रत्ययः । वुन्नयं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम्, अन्यत्रापि दर्शनात्' (वा ३३१४) । द्विमोदकिकाम् ।

२०७४ । दुण्डव्यवसर्गयोश्च । (५-४-२)

वुन्स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः, द्विपदिकां, द्विशतिकां व्यवसृजति । ददातीत्यर्थः ।

२०७५ । स्थूलादिभ्यः प्रकारवचने कन् । (५-४-३)

जातीयरोऽपवादः । स्थूलकः । अणुकः । “चञ्चद्बृहतोरुपसङ्ख्यानम् (वा ३३१५) । चञ्चत्कः । बृहत्कः । 'सुराया अहौ (ग सू १३०) । सुरावर्णोऽहिः सुरकः ।


अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः-पादशतस्य सङ्ख्यादेर्वीप्सायां वुन् लोपश्च ॥ पादश्च शतश्चेति समाहारद्वन्द्वात् लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे। सङ्ख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्थे वुन्प्रत्ययः स्यात्, प्रकृतेरन्यस्य लोपश्चेत्यर्थः । ननु वुनः अकादेशे सति 'यस्येति च' इत्येव लोपसिद्धेरिह लोपविधिर्व्यर्थः इत्यत आह । लोपवचनमनैमित्तिकत्वार्थमिति ॥ ‘यस्येति च' इति लोपस्य परनिमित्तकतया तस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वात् ‘पादः पत्’ इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वात्प्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति ।। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाभावात्कथमिह तद्धितार्थ इति समास इति वाच्यम् । वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशतिकामिति ॥ द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि।। वार्तिकमिदम् । अनर्थकमिति कथम् । पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह । अन्यत्रापिदर्शनादिति ॥ तदुदाहृत्य दर्शयति । द्विमोदकिकामिति ॥ द्वौ द्वौ मोदकौ ददातीति विग्रहः । दण्डव्यवसर्गयोश्च ॥ वुन् स्यादिति ॥ सङ्ख्यादेः पादशतात् दण्डव्यवसर्गयोर्गम्ययोर्वुन् स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः । दण्डनं दण्डः । बलात्कृत्य द्रव्यग्रहणम् । व्यवसर्गो दानम्। ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह । अवीप्सार्थमिति ॥ द्वौ पादौ दण्डित इति ॥ बलात्कृत्य ग्राहित इत्यर्थः । स्थूलादिभ्यः ।। प्रकारो भेदः सादृश्यञ्च । व्याख्यानात् । तद्वति वर्तमानाद्यथायोगं कन्नित्यर्थः । जातीयरोऽपवाद इति ।। एतेन अयमपि तद्वदेव प्रकारवति भवति । नतु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति ॥ चञ्चधातुश्चलने