पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२०
[कर्मधारय
सिद्धान्तकौमुदीसहिता

समस्यते । युवा खलतिर्युवखलतिः । युवतिः खलती युवखवलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तदूपारोपात्सामानाधिकरण्यम् ।

७४९ । कृत्यतुल्याख्या अजात्या । (२-१-६८)

भोज्योष्णम् । तुल्यश्वेतः । सद्यशश्वेतः । 'अजात्या' किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ।

७५० । वर्णो वर्णेन । (२-१-६९)

समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ।

७५१ । कडाराः कर्मधारये । (२-२-३८)

कडाराद्यः शब्दाः कमेधारये वा पूर्वे प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ।


“पलितञ्जरसा शौक्ल्यम्” “वलिनो वलिभस्समौ' इत्यमरः । युवा खलतिः युवखलतिरिति ॥ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः । ननु युवेति पुलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह । लिङ्गविशिष्टेति ॥ युवतिः खलतिः युवखलतिरिति ॥ पुंवत्कर्मधारय' इति पुंवत्वम् । युवजरतीति ॥ जरती वृद्धा । युवतिश्चासौ' जरती चेति विग्रहः । 'पुंवत्कर्मधारय' इति पुंवत्वम् । ननु युवतिऽकथं जरती स्यादित्यत आह । युवत्यामेवेति ॥ कृत्यतुल्याख्या ॥ कृत्यप्रत्ययान्तातुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति ॥ भोज्यञ्ज तदुष्णञ्चेति विग्रहः । 'ऋहलोर्ण्यत्' इति ण्यत् । अर्हे कृत्यप्रत्ययः । भोज्योष्णशब्दयोऽक्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यश्वेत इति ॥ तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह । सदृशश्वेत इति ॥ सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य ओदन इति ॥ अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुर्वार इत्यत आह । प्रतिषेधेति ॥ भोज्यशब्दपूर्वनिपातस्योभयथाप्यविशिष्टतया ‘अजात्या’ इति पर्युदासवैयर्थ्यादिति भावः । वर्णो ॥ शेषपूरणेन सूत्रं व्याचष्टे । समानाधिकरणेनेति ॥ वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः। कृष्णसारङ्ग इति ॥ सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिकः इति सामानाधिकरण्यम्। कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इद प्रपञ्चार्थमेव । यत्तु ‘वर्णो वर्णेष्वनेते' इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम्। तेन सारङ्गस्यावयवः कृष्णस्सारङ्गकृष्णः इत्यत्र ‘वर्णो वर्णेषु' इति स्वरो नेति तच्चिन्त्यम् । कर्मधारयस्वरप्रकरणे ‘वणो वर्णेष्वनेते’ इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये ॥ ‘उपसर्जनं पूर्वम्’ इत्यतः पूर्वमित्यनुवर्तते । कडाराः इति बहुवचननिर्देशात्तदादिग्रहणम् । तदाह । कडारादय इति ॥ ‘उपसर्जनम्पूर्वम्' इति नित्यत्वे प्राप्ते विकल्पोऽयम् । कडारजैमि-