पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१८
[कर्मधारय
सिद्धान्तकौमुदीसहिता

कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्री । दत्तभार्या, पञ्चमभार्या । स्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं ' पाचकजातीया' ' पाचकदेशीया' इत्यादि । इभपोटा । 'पोटा स्रीपुंसलक्षणा' । इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा ।


विधीयते । कृते पुंवत्वे 'आन्महतः’ इत्यात्वमिति भावः । कृष्णचतुर्दशीति ॥ चतुर्दशानां पूरणी चतुर्दशी । डट् । 'नस्तद्धिते' इति टिलोपः । टित्वान्डीप् । कृष्णा चासों चतुर्दशी चेति विग्रहः । महाप्रियेति ॥ महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयते इति भावः । 'पुंवत्कर्मधारय' इत्यस्य प्रयोजनान्तरमाह । तथा कोपधादेरिति ॥ 'न केोपधायाः’ ‘सज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धित स्यारक्तविकारे ' 'स्वाङ्गाञ्चेतः’ ‘जातेश्च' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति ॥ कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति ॥ पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः’ इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पञ्चमभार्येति ॥ दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्र संज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । स्रौघ्नभार्येति ॥ स्रौघ्नी चासौ भार्या चेति कर्मधारयः। अत्र ‘वृद्धिनिमित्तस्य च' इति प्रतिषेधः प्राप्तः । सुकेशभार्येति ॥ सुकेशी चासौ भार्या चेति कर्मधारयः । अत्र ‘स्वाङ्गाञ्च' इति निषेधः प्राप्तः । ब्राह्मणभार्येति ॥ ब्राह्मणी चासौ भार्या चेति कर्मधारयः । अत्र ‘जातेश्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति । एवं पाचकजातीया, पाचकदेशीयेति ॥ 'प्रकारवचने' इति जातीयर्, 'ईषदसमाप्तौ' । इति देशीयर् । उभयत्रापि 'तसिलादिषु' इति पुंवत्वस्य 'न कोपधायाः’ इति निषेधः प्राप्तः । इत्यादीति ॥ दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्चमदेशीया, स्रौघ्नजातीया, स्रौघ्नदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजातीया, ब्राह्मणदेशीया तदेवं 'पुंवत्कर्मधारय इति सूत्रं निरूप्य “पोटायुवति' इति सूत्रस्य क्रमेणोदाहरणान्याह । इभपोटेति ॥ पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति ॥ कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिारिति ॥ युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्वम् । अग्निस्तोक इति । स्तोकः अल्पः स चासौ अग्निश्चेति विग्रहः । उदश्वित्कतिपयमिति ॥ “तक्रं द्युदश्वित्” इत्यमरः । कतिपयञ्च तदुदश्विञ्चेति कर्मधारयः । गृष्टिस्सकृत्प्रसूतेति ॥ कोशवाक्यमिदम् । गोगृष्टिरिति ॥ गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतिकेति ॥ कोशवाक्यमिदम् । गोधेनुरिति ॥ धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्या इति ॥ कोशवाक्यमिदम् । गोवशेति ॥ वशा चासौ गौश्चेति विग्रहः । वेहद्गर्भघाति-