पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५१७
बालमनोरमा

७४४ । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः (२-१-६५)

इति तत्पुरुषः ।



श्रीरस्तु ।

॥ अथ कर्मधारयसमासप्रकरणम् ॥


७४५ । तत्पुरुषः समानाधिकरणः कर्मधारयः । (१-२-४२)

७४६ । पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२)

कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊडभावो यस्मिस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावो विधीयते । महानवमी।


स कुराजेत्यन्वयः । पोटायुवति ॥ पोटादिभिस्समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः ।

इति तत्पुरुषः ।


अथ कर्मधारयकार्यं वक्ष्यन् कर्मधारयसंज्ञामाह---तत्पुरुषः समान ॥ समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः मत्वर्थीयः अर्श आद्यच् । समानाधिकरणानेनकपदावयवकस्तत्पुरुषः कर्मधारयसज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता । तथा सत्येकसंज्ञाधिकारात् कर्मधारयसंज्ञया तत्पुरुषसंज्ञा बाध्द्येतेत्याहुः । पुंवत्कर्मधारय ॥ स्त्रियाः पुंवद्भाषितपुस्कादनूडिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशे अधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह । कर्मधारये इति ॥ तथाभूतमित्यनन्तरं स्त्रीवाचकमिति शेषः । भाषितपुंस्कादनूडित्येतत् 'स्त्रियाः पुवत्' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारये 'स्त्रियाः पुंवत्' इत्यनेन सिद्धं पुंवत्त्वम्, जातीयदेशीययोस्तु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह । पूरणीप्रियादिष्वप्राप्तः इति ॥ अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति ॥ महती चासौ नवमी चेति विग्रहः । ‘सन्महत्' इत्यादिना समासः । नवानां पूरणी नवमी । 'तस्य पूरणे डट्’ ‘नान्तादसङ्खयादेर्मट्' टित्वात् ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्वमप्राप्तमनेन