पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२६
[गति
सिद्धान्तकौमुदीसहिता

७६५ । भूषणेऽलम् । (१-४-६४)

अलंकृत्य । ' भूषणे' किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम्--' (सू ७६३) इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ।

७६६ । । अन्तरपरिग्रहे । (१-४-६५)

अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ।

७६७ । कणेमनसी श्रद्धाप्रतीघाते । (१-४-६६)

कणेहत्य पयः पिबति । मनोहत्य । 'कणे ' शब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते । 'मनः' शब्दोऽप्यत्रैव ।

७६८ । पुरोऽव्ययम् । (१-४-६७)

पुरस्कृत्य ।

७६९ । अस्तं च । (१-४-६८)


त्यर्थः । गतिसमासे त्को ल्यप् । भूषणेऽलम् ॥ भूषणे विद्यमानं अलमित्यव्ययं गतिसज्ञकं स्यादित्यर्थः । अलंकृत्येति ॥ कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञ्विषयेति ॥ कृञ्योग एव भवतीत्यर्थ । वस्तुतस्तु सङ्कोचे प्रमाणाभावात्, धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता । अत एव अलं भुत्का ओदन गत इति वृत्तिकृता प्रत्युदाहृतम् । अन्तरपरिग्रहे॥ अपरिग्रहे वर्तमानं अन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । हतं परिगृह्येति ॥ हत्वा गमनम्, हतं परिगृह्येति अपरिगृह्य वा भवति । तत्र आद्यमुदाहरणं द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीघाते ॥ कणशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसज्ञकौ स्तः । अत्यन्ताभिलाष. श्रद्धा , तस्याः निवृत्तिः प्रतीघातः । कणेहत्येति ॥ गतिसमासे त्का ल्यप् । मनोहत्येति ॥ पयxपिबतीत्यनुषज्यते । ननु समासे कृते कण इति सप्तम्याः कथं न लुगित्यत आह । कंणेशब्द इति ॥ ननु श्रद्धाप्रतीघातस्य कथमिहागतिः । श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानम् इत्यत आह । अभिलाषातिशये इति ॥ कणेशब्द इत्यनुषज्यते । 'परावरयोगे च' इति सूत्रेण त्का । अभिलषनिवृत्तिपर्यन्तं पयx पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम्, कणेहत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनोहत्य गतः, विषपानादौ मनxप्रवृतिं प्रतिबध्य गत इत्यर्थः । पुरोऽव्ययम् ॥ पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति ॥ गतिसमासे त्को ल्यप् । अव्ययं किम्, पुरम्, पुरौ पुरx कृत्वा गतः । अस्तञ्च ॥ पूर्वसूत्रादव्ययमित्यनुवर्तते इत्याह । मान्तमव्ययमिति ॥