पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५१५
बालमनोरमा

७३९ । क्तेन नञ्विशिष्टेनानञ् । (२-१-६०)

नञ्विशिष्टेन क्तान्तेनानञ्क्तान्तं समस्यते । कृतं च तद्कृतं च कृताकृतम् । ' शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्' (वा १३१०) शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः ।

७४० । सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । (२-१-६१)

सद्वैद्यः । वक्ष्यमाणेन महत आकार : । महावैयाकरण : । 'पूज्यमानैः' किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ।


च्व्यर्थवचनं च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेणयः इति ॥ शिल्पेन पण्येन वा जीविनां समूहाः श्रेणयः । पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्थाः इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति 'श्रेणीकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो ह्रस्वान्तः । भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः । च्व्यर्थाभावात् । च्विप्रत्ययान्तस्य तु परत्वात् 'कुगति' इति नित्यसमासः । ततः ‘च्वौ च' इति श्रेणिशब्दस्य दीर्घः । क्तेन नञ्विशिष्टेनानञ् ॥ नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्जरहितं क्तान्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतञ्च तदिति ॥ एकदेशस्य करणात्कृतम् एकदेशान्तरस्याकरणात्तदेवाकृतम्, पूर्वनिपातनियमार्थम् । सिद्धञ्च तदभुक्तञ्चेत्यत्र तु न त्वयं समासः । विशिष्टशब्दो ह्यत्राधिक वाची । यथा देवदत्ताद्यज्ञदत्तः स्वाध्द्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं नञ्मात्राधिकेन त्क्तान्तेनेति लभ्यते । एवञ्च समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति ॥ 'वर्णो वर्णेन' इति सूत्रभाष्ये इदं वार्तिकं पठितम्। शाकप्रियः पार्थिवः शाकपार्थिवः इति ॥ शाकः प्रियः :यस्य सः शाकप्रियः ‘वा प्रियस्य’ इति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्च इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः। तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राह्मणः इति ॥ देवाः प्रियाः यस्य स देवप्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः । सन्महत्परम ॥ समानाधिकरणैस्संमस्यन्ते स तत्पुरुष इति शेषः । सद्वैद्य इतेि ॥ सन् वैद्य इति विग्रहः । चिकित्साशास्रकूलंकषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थं सूत्रम् । वक्ष्यमाणेनेति ॥ महांश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य ' आन्महतः’ इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीर्घ महावैयाकरणः इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आह । पङ्कादुद्धृत इत्यर्थ इति ॥ उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः ।