पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

धातुग्रहण तदादिविधि ' इति । तेनायस्कार । 'अत. कृकमि -' (सू १६०) इति स. । उद्ड्, उदञ्चौ, उदञ्चः । शसादावचि ।

४२० । उद ईत । (६-४-१३९)

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्स्यात् । उदीच उदीचा । उदग्भ्यामित्यादि ।

४२१ । समः समि । (६-३-९३)

अप्रत्ययान्तेऽञ्चतौ परे सम समिरादेश. स्यात् । सम्यङ्, सम्यञ्चौ सम्यञ्च । समीच” । समीचा ।

४२२ । सहस्य सध्रिः । (६-३-९५)

अप्रत्ययान्तेऽञ्चतौ परे । सध्रयड्

४२३ । तिरसस्तिर्यलोपे । (६-३-९४)

{{c|अलुप्ताकारेऽञ्चतावप्रत्ययान्ते परे तिरसस्तिर्यादेश स्यात् । तिर्यङ् तिर्यञ्चौ, तिर्यञ्च । तिर्यञ्चम्, तिर्यञ्चौ, तिरञ्च । तिरञ्चा, तिर्यग्भ्यामित्यादि ।


न्तत्वन्नेति भाव । ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र अद्या देशस्याप्रसक्ते किमप्रत्ययग्रहणेनेत्यत आह । अप्रत्ययग्रहणमिति । तेनेति ॥ अन्यथा अत कृकमि' इत्यत्र 'नित्य समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात् कृधातुरूप उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्व स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थ । उद् ङिति । उत अञ्चतीति विग्रहे क्विन्नादिरिति भाव । शसादौ 'अच' इति लोपे प्राप्ते । उद ईत् ॥ “अच ' इति सूत्रमनुवर्तते, अल्लोप इति च । भस्येत्यधिकृतम् । तदाह । उच्छब्दादित्यादिना ॥ उत् अञ्चतीति विग्रहे क्विन्नादि । समः समि ॥ समीति लुप्त प्रथमाकम् । अञ्चतावप्रत्यय इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । अप्रत्ययेति ॥ समीच. इति ॥ * अच ' इति लोपे “चौ' इति दीर्घ । सहस्य सध्रिः ॥ सहस्य सध्रि स्यादप्रत्ययान्ते अञ्चतौ पर इति व्याख्यान सुगमत्वादुपेक्षितम् । सध्रयङिति ॥ सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्रयादेशे यण् । तिरसस्तिर्यलोपे ॥ तिरि इति लुप्तप्रथमाकम् । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते ‘अच' इत्यल्लोपो यस्य स अलोप, तस्मिन्निति विग्रह । तदाह । अलुप्तेत्यादिना । तिर्यङिति ॥ तिर अञ्चतीति विग्रहे क्वि न्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चः इति । शसादावचि ‘अच' इत्यल्लोपसत्वान्न तिर्या देश । सस्य श्चुत्वेन श’ इति भाव । पुजार्थादञ्चुधातो क्विनि “अनिदिताम्' इति नलोपे