पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


चकारान्तप्रकरणम्]
२८३
बालमनोरमा ।


वदता मते । अदमुयड्'। “ अ से सकारस्य स्थाने यस्य स असि तस्य असे इति व्याख्यानात् 'त्यदाद्यत्वविषय एव मुत्व नान्यत्र' इति पक्षे 'अदद्यड्' उक्त च (भाष्ये) ।

"अदसोऽद्रे पृथङ्कमुत्व केचिदिच्छन्ति लत्ववत् ।

केचिदन्त्यसदेशस्य नेत्येकेऽसोर्हि दृश्यते ।।" इति ।

'विष्वग्देवयो' ? किम् । अश्वाची । अश्वतौ' किम् । विष्वग्युक् । 'अप्रत्यये' किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति “ अन्यत्र


दात्परो न भवति । अभद्यादेशे कृते तु इकार अन्त सोऽपि दात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्तसमीपवतिन एव दात्परस्य उत्वम्, दस्य च म , नतु तत प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थ । नन्वेव सति *णो न ' इति धात्वादेर्णकारस्य विहित नत्व नेता इत्यत्रैव स्यात् । नमतीत्यत्र न स्यादिति चेत्, मैवम् । अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तो अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इति “घ्यडस्सम्प्रसारणम्’ इति सूत्रे भाष्ये स्पष्ट प्रपञ्चितत्वात् । यद्यपि “ध्यडस्सम्प्रसारणम्' इति सूत्रे प्रकृतसूत्रे व 'अनन्त्यऽविकारे अन्त्यसदेशस्य’ इति परिभाषा पठिता। तथापि सैवात्रार्थतस्सङ्गृहीता। अन्त्यम्य विकार आदेश अन्त्यविकार । अन्त्यविकारस्याभाव अनन्त्यविकार अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकत्प्यते इति वक्ष्यमाणत्वात्तत्पुरुष । अव्ययीभावपक्षे तु ‘तृतीयासप्तम्योर्बहुळम्' इत्य म्भावाभाव । अलोऽन्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाभावे सतीति यावत् । अदमुयङिति ॥ अत्र पूर्वस्य दकारस्य तदुत्तररावकारस्य च न मुत्वमिति विशेष । मतान्तरमाह । अः से. सकारस्येति ॥ सेरित्यस्य विवरण सकारस्येति । असेरिति नायन्नञ्तत्पुरुष, किन्तु अ से यस्य स असि , तस्य असेरिति विग्रह । सेरिति स्थान षष्ठी, इकार उच्चारणार्थ, सकारस्थानकाकारवत इत्यर्थ । अदस्शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाकारवत्त्वम् ।अत त्यदाद्यत्वबत एवादस्शब्दस्य मुत्व नान्यस्य इति फलि तम् । अत अद्वादेशे सति सकारस्थानकाकारवत्वाभावान्न मुत्वमित्यर्थ । तदिद पक्षत्रयमपि भाष्यसम्मतमित्याह । उक्तञ्चेति ॥ अदस टे अद्रेर्विधौ सति अदद्यच् इत्यत्र प्रथमद्विती ययो दकारयो पृथङ्मत्व तदुत्तरयो अवर्णरेफयोरुत्वञ्च युगपदेव । लत्ववत् । चलीक्लृप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा “कृपो रो ल ' इति लत्व, तथा"केचिदिच्छ न्ति । अन्त्यसदेशस्यैव केचित् लत्वमिच्छान्ति । अत्रद्यादेशे सति प्रथमयोर्द्वितीययोश्च मुत्व नैव केचिदिच्छन्ति । हि यत असे सकारस्थानकाकारवत एव मुत्व दृश्यते । । अ से यस्येति बहुव्रीहिणा प्रतीयत इति योजना । विष्वग्देवयोः किमिति ॥ विष्वग्देवयोश्चति किमर्थ मित्यर्थ । अश्वाचीति ॥ अत्र विष्वग्देवयोस्सर्वनाम्नश्चाभावान्नाद्यादेश इति भाव । अप्रत्यये किम् । विष्वगञ्चनमिति । अत्र अन इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्यया