पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४१९ । अद्सोऽसेर्दादु दो मः । (८-२-८०)

अद्साऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । उ इति हृस्व दीर्घयो समाहारद्वन्द्व आन्तरतम्याद्धस्वव्यञ्जनयोर्हस्वो दीर्घस्य दीर्घ अमुमुयड्, अमुमुयञ्चो, अमुमुयञ्च अमुमुयञ्चम्, अमुमुयश्चौ अमुमु ईच । अमुमुईंचा, अमुमुयग्भ्यामित्यादि । मुत्वस्यासिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्य' (प १०४) इति परिभाषामाश्रित्य परस्यैव मुत्वं


व्किबादिर्यस्मादिति बहुव्रीह्याश्रयणादिति भाव । प्रकृते अदसष्टेरद्यादेशमुदाहृत्य दर्श यति । अदद्रि अञ्च् इति स्थिते इति ॥ अद्यादेशोऽयम् “अनिदिताम्' इति नलोपे कृत प्रवर्तते । नलोपस्य परत्वादिति बोध्यम् । यणिति रेफादिकारस्येति शेष। अदद्यच् इत्यतस्सुबुत्पत्ति ।अदसो ।। अदस असे दात् उ द म इति च्छेद ।अदस इत्यवयवषष्ठयन्तम् । असरिति तद्विशेषणम् । न विद्यते सि यस्य स असि तस्यति विग्रह इकार उच्चारणार्थ । दादिति दिग्योगे पञ्चमी ।परस्येत्यध्याहार्यम् ।तदाह ।अदसो डसान्तसेयेति ।। असे किम् । अदस्यति । दात् किम् । अमुया । अत्र * अलोऽन्त्यस्य इति यकारस्य न भवति । ननु उदूताविति कथम्, इत्यस्यैव श्रवणादित्यत आह उ इतीति उश्च ऊश्च तयोस्समाहार इति विग्रहे, द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घे “सनपु सकम्’ इति नपुसकत्वे, 'ह्रस्वो नपुसके प्रातिपदिकस्य ' इति ह्रस्वत्वे, समाहारस्यैकत्वादेक वचनस्य सो “स्वमोर्नपुसकात्' इति लुकि, उ इति रूपमित्यर्थ । आन्तरतम्यादिति अर्धमात्रस्थ व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्रस्व उकार। ह्रस्वस्य तु मात्रिकस्य मात्रिकत्व सादृश्यादुकारो हूस्व। दीर्घस्य तु द्विमात्रत्वसादृश्यात् द्विमात्र ऊकार इत्यर्थ । अमुमु यङिति ॥ अदद्यच् स् इति स्थिते 'उगिदचाम्' इति नुमि, हल्डयदिलोपे, चकारस्य सयो गान्तलोपे, नुमो नकारस्य 'क्विन्प्रत्ययस्य कु ' इति कुत्वे, अदद्यङ् इति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमु याडिति रूपमिति भाव। प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवता सुगमम् । अमुमुयञ्चा विति ॥ प्राञ्चावितिवदूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेष । अमुमुईचः इति ॥ अमुमु इ अच् इति स्थिते अन्तरङ्गोऽपि यण् 'अच ' इति लोपविषये न प्रवर्तते इत्युक्तरीत्या अकृते याणि “अच ' इत्यकारलोपे 'चौ' इति इकारस्य दीर्घ इति भाव अमुमुयग्भ्यामिति ॥ 'चो कु' इति कुत्वमिति विशेष । इकारे परे मकारादुकारस्य यणमाशङ्कय आह । मुत्वस्यासिद्धत्वादिति ॥ अमुमुईंचे । अमुईच असुमुइचो अमुमुयक्षु । मतान्तरमाह अन्त्यबाध इति अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याभावे सति अन्त्यसमीपवर्तिन कार्य भवतीत्यर्थ । प्रकृते च अदस इति नावयवषष्ठी । किन्तु स्थानषष्ठी । ततश्च 'अलोऽन्त्यस्य' इत्युपतिष्ठते । असान्तस्य अदम अन्त्यस्य दात्परस्य उत्व दस्य च म इति फलितम् । अदसश्चान्त्यवर्णस्सकार