पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२७४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता
   द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्त ।

श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म स ।

स्वामी ते मेऽपि स हरि पातु वामपि नौ विभु ।।

सुखं वां नौ ददात्वीश पतिवमपि नौ हरि ।

सोऽव्याद्धेो न. शिव वो नो दद्यात्सेव्योऽत्र व. स नः ॥

'पद्मात्परयो' किम् । वाक्यादौ मा भूत् । त्वां पातु, मा पातु ।

'अपादादौ' किम् । 'वेदैरशेषे सवेद्योऽस्मान्कृष्ण सर्वदाऽवतु' । स्थग्रहणा


एकवचनस्येत्यनुवर्तते । तदाह । द्वितीयेत्यादिना ॥ अथ विभक्तिक्रमक्लृप्तद्वितीयाचतुर्थीषष्ठी क्रमेण एकद्विबहुवचनक्रमेण चोदाहरति । श्रीशः इत्यादिश्लोकद्वयेन । तत्र 'श्रांशस्त्वावतु मापीह” इति प्रथम पाद । श्रिया ईश पति विष्णु त्वा मा अपि पातुइत्यन्वय । अत्र त्वाम्, माम् इति द्वितीयैकवचनान्तयो त्वा मा इत्यादेशौ । दत्तात्त मेऽपि शर्म सः इति । स श्रीश ते मेऽपि शर्मे सुख दत्तादित्यन्वय । “डु दाञ् दाने ' आशिषि लोटि दत्तादिति रूपम् । दद्या दिति क्वचित् पाठ । अत्र तुभ्यम्, मह्यम् इति चतुर्थ्येकवचनान्तयो ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठयकवचनान्तयो ते मे आदेशौ । पातु वामपि नौ विभुरिति ॥ विभु सर्वव्यापक वा नौ अपि पातु इत्यन्वय । अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयो वा नौ इत्यादेशौ । सुखं वां नौ ददात्वीशः इति ॥ नौ इत्यनन्तरमपिशब्दोऽद्याहार्य । अत्र युवाभ्याम्, आवाभ्याम् इति चतुर्थाद्विवचनान्तयो वा न्नावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयो आवयोरिति षष्ठीद्विवचनान्तयो वा न्नावौ । सोऽव्याद्वो नः इति । स हरि व न अपि अव्यात्, रक्षतात् इत्यर्थ । अत्र युष्मान्, अस्मान् इति द्वितीयाबहुवचनान्तयो वस्रसौ । शिवं वो नो दद्यादिति ॥ शिवमिति शुभमुच्यते । न इत्यनन्तरम् अपीत्यध्द्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयो वस्रसौ । सेव्योऽत्र वः स नः इति । स हरि वा नौ अपि सेव्य, भजनीय इत्यर्थ । ‘कृत्याना कर्तरि वा’ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठी बहुवचनान्तयो वन्नसौ । त्वां पातु, मां पात्विति । अत्र युष्मदस्मदो पदात् परत्वा भावात् “त्वामौ द्वितीयाया ' इति न भवतीत्यर्थ । यद्यप्यत्र अस्मच्छब्दस्य पात्वितिपदात् परत्वमस्ति । तथापि भिन्नकाल वाक्यद्वयमिह विवक्षितमित्यदोष । संवेद्योऽस्मानिति ॥ अत्रास्मच्छब्दस्य पादादौ स्थितत्वान्नादेश । यद्यप्यनुष्टुप्छन्दस्कोऽय श्लोक । तत्र एकैकः पाद अष्टाक्षर इति स्थिति । तत्र सन्ध्यभावे “ अस्मान् कृष्णस्सर्वदाऽवतु' इत्यस्य नवाक्षर त्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्वव्याघात । सवेद्य् इत्यस्य पदत्वाभावात् अस्मद पदात् परत्वाभावश्च । पूर्वान्तत्वे तु स्मानित्यस्य पादादिस्थितस्य नास्मच्छब्द रूपता । तथापि सवेद्यो इलेकादेशविशिष्टस्य पूर्वान्तत्वात् पदत्वम् । स्मानित्यस्य तु एकदेश