पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु । युवाम् आवां वा अति क्रान्त इति विग्रहे सुजस्डेडस्सु प्राग्वत्। औअम्औट्सु अतियुवाम्। अतियुवाम्। अतियुवाम् । अत्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । आतियुवाभि । अत्यावाभि. । भ्यसि, अतियुवभ्यम् । अत्यावभ्यम् । डसिभ्यसो. अतियुवत्। अतियुवत् । अत्यावत् । अत्यावत् । ओसि, अतियुवयो. । अतियुवयो । अत्यावयो. । अत्यावयो. । आतयुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वा अतिक्रान्त इति विग्रहे सुजस्डङस्सु प्राग्वत् । औअम्औट्सु अतियुष्माम् । अतियुष्माम् । अति युष्माम् । अत्यस्माम् । अत्यस्माम । अत्यस्माम् । आतयुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्माभि अत्यस्माभि । भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । डसिभ्यसो । अतियुष्मत् । अत्यस्मत् । ओसि अतियुष्मयो । अतियुष्मयो . । अत्यस्मयोः । अत्यस्मयो । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ।


स्सर्वनाम्न परस्यामो विहितत्वादिति चेत् । मैवम् । ससुट्कत्वस्य सम्भावनामात्रविषयत्वात् । एवञ्च सुट् यत्र सम्भविष्यति तत्र सुटो निवृत्यर्थ ससुट्कनिर्देश । यत्र तु सुट् न सम्भवति तत्र केवलस्य आमस्सुट् । अत्र च 'प्रत्योत्तरपदयोश्च' इति सूत्रे अतित्वाकमतिमाकमिति भाष्ये तदुदाहरण प्रमाणमित्यास्ता तावन् । तदेवमुपसर्जनयो युष्मदस्मदोरेकार्थवाचित्वे उदा हरणान्युक्ता व्यर्थवाचित्वे उदाहरात। युवाम् आवां वा अतिक्रान्त. इति । अतिक्रान्तौ अतिक्रान्ताः इति विग्रहृयोरुपलक्षणम् । अत्र युष्मदस्मदोर्थवृत्तित्वात् सुजस्डेडस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवत । अवशिष्टास्तु प्रक्रिया केवलयुष्मदस्मद्वत् ज्ञेया । सुजस्डेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ, इत्येते एवा देशा परत्वाद्युवावादेशौ बाधित्वा प्रवर्तन्ते । सुजस्डेडस्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्ष। अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह । युष्मान्। अस्मान्वेति ॥ युष्मानस्मान्वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थ । 'व्द्येवकसङ्खयस्समा सार्थ ' इति चतुर्थश्लोकस्योदाहरणान्येताति । अत्र युष्मदस्मदोरेकव्द्यर्थवाचित्वाभावात् सुजस् डेडस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ नापि युवावौ । 'डे प्रथमयो ' इत्याद्यास्तु भव न्त्येव । सुजसूडेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवमौ इत्येते भवन्त्येव । तेषामेकद्यर्थ