पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
र्नकारान्तप्रकरणम्]
२५३
बालमनारमा ।

अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्टन । इह पूर्वस्मादपि विधावल्लो पस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा ।


नकारस्यात्व, सवर्णदीर्घ, वृद्धिरिति भाव । परमाष्टाविति ॥ “अष्टाम्य औश्’ इत्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थ । अष्टभिरिति ॥ भिसादौ आत्वे सवर्णदीर्घ । अष्टा नामिति ॥ आदी नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्मज्ञकशब्दस न्निपातमुपजीव्य प्रवृत्तस्य नुट तद्विघातकमात्व प्रति कथन्निमित्तत्वमिति वाच्यम् । नैहि षट्सन्निपातेन जातस्य नुट आत्वविघातकत्वम् । “शमामष्टाना दीर्घश्श्यनि' इत्यादिनिर्देशेन अत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणादिति भाव । आत्वाभावे इति । “अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भाव । यद्यपि * अष्टनो दीर्घात् इति सूत्रे शसादिविभक्तिषु परत स्वरविधायके दीर्घग्रहण शमादिष्ववात्वविकत्प ज्ञापयितु शक्रोति । नतु जसि । तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जस्यप्यात्वविकल्प इति भाव । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्त । तत्र विशेष माह । गौणत्वे त्विति ॥ अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थ । आत्वाभावे इति ॥ अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भाव । राजवदिति ॥ प्रायेणेति शेष । प्रियाष्टा, प्रियाष्टानौ. प्रियाष्टान । प्रियाष्टानम्, प्रियाष्टानौ । शसि प्रियाष्ट्नः इति ॥ “अल्लोपोऽन ' इत्यकारलोप । ननु कृते अलोपे नकारस्य ष्टुत्वेन णत्व कुतो न स्यादित्यत आह । इहेति ॥ इहाल्लोपस्य स्थानिवद्रावान्न श्ट्त्वमित्यन्वय । अल्लो पस्य स्थानिवत्वे सति अकारव्यवहितत्वान्न श्रुत्वमिति भाव । ननु “ स्थानिनि सति यत्कार्य तदेवादेशेऽतिदिश्यते । स्थानिनि सति यत्कार्य न भवति तदादेशे न भवति” इत्येव कार्यभाव स्तु नातिदिश्यते । अन्यथा नायक इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम्। तस्माद ल्लोपस्य स्थानिवत्वात् न ष्टुत्वमित्यनुपपन्नम् । “अच परस्मिन्' इति सूत्रन्तु यद्यपि स्थानिनि सति यत्कार्यन्न भवति तदादेशेऽपि न भवतीत्येव कार्याभावस्यातिदेशिकम् । तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच पूर्वस्यैव विधौ तत्प्रवृत्ते । इह च स्थानिभूतादच. परस्यैव ष्टुटुत्वप्रवृत्तेरित्यत आह । पूर्वस्मादपि विधाविति ॥ स्थानिभूतादच पूर्वस्मात् परस्यापि विधौ स्थानिवत्वाभ्युपगमादित्यर्थ । “नच पूर्वत्रासिद्धीये न स्थानिवत्' इति निषेधश्शङ्कय । तस्य दोषस्सयोगादिलोपलत्वणत्वेषु' इति तन्निषेधातू । “अट्कुप्वाड्’ इति णत्वन्तु न शङ्कयम् । टकारेण व्यवधानात् । शब्दकौस्तुभे तावत् 'तस्य दोष' इत्यत्र णत्वग्रहणम्मास्त्वि त्युक्तम् । तद्रीत्या आह । बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति ॥ अल्लोप. अङ्गसज्ञा भसज्ञापेक्षत्वाद्वहिरङ्ग. । ष्टत्वन्तु तदनपेक्षत्वात् अल्पापेक्षत्वादन्तरङ्ग. । तस्मिन् कर्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वादकारव्यवहितत्वात् न टुत्वमित्यर्थ । यथोद्देशपक्षे “असिद्ध बहि रङ्गम्’ इति षाष्ठीं परिभाषा प्रति इचुत्वस्यासिद्धतया अन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः कथमिहाल्लोपस्यासिद्धत्वमित्यत आह । कार्यकालपक्षे इति ॥ लक्ष्यानुरोधादिह यथोद्देश