पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२४३
बालमनोरमा ।

र्थ्यात् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (प ६२) इति न्यायं बाधित्वा “ एकाजुत्तरपदे–' (सू ३०७) इति णत्वमपि निवर्तते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवन्। वृत्रघ्न । वृत्रघ्ना इत्यादि । यत्तु ‘वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्त. तद्भाष्यवार्तिकविरुद्धम् । एव शाङ्गिन, यश स्विन्, अर्यमन्, पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि “इन्हन् (सू ३५६) इत्यत्र ग्रहण भवत्येव । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च रत्पूर्वस्यैवेत्यादिना ॥ प्रघ्नन्तीति ॥ हन्तेर्लट्, झि, झोऽन्त, शप्, लुक् । गमहन' इत्युपधालेाप । “हो हन्ते ' इति कुत्वम् । प्रघ्नन्तीति रूपम् । अत्र उपसर्गस्थ रेफात् परत्वात् 'हन्त ' इत्यनेन प्राप्त णत्वम् “अत्पूर्वस्य' इति नियमान्न भवति । वृत्रघ्न इत्यत्र 'प्रातिपदिकान्त' इत्यादिणत्व निवर्तते । ननु 'प्रातिपदिकान्तनुम्विभक्तिषु च, एकाजुत्तरपदे ण, कुमति च, हन्तेरपूर्वस्य' इति सूत्रपाठक्रम । ततश्च “अनन्तरस्य विधि इति न्यायेन “अत्पूर्वस्य' इति नियमेन प्रघ्नन्तीत्यत्र हन्तेरित्यव्यवहितणत्वमेव निवर्तत । नत्वन्यदित्यत आह । योगेति ॥ यदि “अन्पूर्वस्य' इत्यनेन “हन्ते ? इति णत्वमेव व्या वर्त्येत्त, तहि 'हन्तरत्पूर्वस्य' इत्येकमेव सूत्र स्यात् । उपसर्गस्थान्निमित्तात् परस्य हन्ते रत्पूर्वस्य नस्य णत्वम् इत्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृतिसम्भवात् । अतो योगविभाग सामर्थ्यात् णत्वमात्रस्याय नियम इति विज्ञायते इत्यर्थ । एकाजुत्तरेति ॥ *कुमति च इत्यस्य “प्रातिपदिकान्त' इत्यस्य च उपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्वात् एकाच्त्वमुत्तरपदस्य बो यम् । नच *पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम् । “तस्य दोष सयोगादिलोपलत्वणत्वेषु' इत्युक्ते । ननु वृत्रघ्न इत्यत्र 'हो हन्ते ’ इति कथ कुत्वम् । पूर्वस्य विधावल्लोपस्य स्थानिवत्वादित्यत आह । नकारे परे इति ॥ माधवमत दूषयितुमनुवदति। यत्विति ॥ तु पूर्ववैषम्ये । वैकल्पिकमिति ॥ ‘प्रातिपदिकान्त' इति विहितमित्यर्थ । तद्भाष्येति ॥ “कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्य ” । किं प्रयोजनम् । वृत्रघ्न । स्त्रुघ्न । प्राघानि । 'हन्तेरत्पूर्वस्य ' इति सूत्रे “अत्पूर्वग्रहणन्न कर्तव्यम्” इति “अट्कुप्वाड्’ इति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात् “प्रातिपदिकान्त' इति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । तद्विरोधातू माधवमतमुपेक्ष्यमित्यर्थ । एवमिति ॥ वृत्रहन्शब्दवदित्यर्थ । 'इन्हन्पूषार्यम्णा शौ, सौ च' इति दीर्घनियममात्रे दृष्टान्त । नतु कुत्वादौ, असम्भवात् । शार्ङ्गमस्यास्तीत्यर्थे * अत इनिठनौ' इति मत्वर्थीय इनि । यशोऽस्या स्तीत्यर्थे * अस्मायामधास्रज ' इति विनि । “ तसौ मत्वर्थे ' इति भत्वान्न रुत्वम् । नन्वर्थ वत्परिभाषया “इन्हन्’ इत्यत्रार्थवत एव इनो ग्रहणम् । ततश्च विन्प्रत्यये इनोऽनर्थकत्वात् तस्य कथ ग्रहणमित्याशङ्कय परिहरति । यशस्विन्नित्यादिना ॥ अनिनस्मन्निति ॥ एतच “येन विधि ' इति सूत्रे भाष्ये स्थितम् । राज्ञ इत्यत्र अन् अर्थवान् । दान्न इत्यत्र तु अनर्थक । शाङ्ग इत्यत्र इन् अर्थवान् । यशस्वी इत्यत्र तु अनर्थक । सुपया इत्यत्रास् अर्थवान्