पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२३९
बालमनोरमा ।

३५३ । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । (८-२-२)

सुव्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्ध , नान्यत्र राजाश्च ' इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभि । राज्ञे


कवेदसिद्धत्वादिति भाव । नत्विद् वर्णान्तरम् । शिक्षादावदर्शनात् । अत एतज्ज्ञानमिति श्चु त्वसिद्धिरित्याहु । राज्ञः, राज्ञेति ॥ शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन नकार इति भाव । ननु राजन् भ्यामिति स्थिते * खादिषु' इति पदत्वात् कृते नलोपे 'सुपि च' इति दीर्घ' प्राप्तोति । तथा राजन् भिस् इति स्थिते, नलोपे, ‘अतो भिस ' इत्यैस् प्राप्रेति । तथा राजन् भ्यम् इति स्थिते नलोपे 'बहुवचने झल्येत्' इत्येत्त्व प्राप्रोति । नच नलोपस्यासिध्धत्वा दिह दीर्घ ऐस् एत्वञ्च नेति वाच्यम्। नलोपविषये ‘पूर्वत्रासिद्धम्’ इत्यस्य प्रवृत्तौ राजाश्वो दण्डय श्व इत्यादावपि नलोपस्यासिद्धत्वान् सवर्णदीर्घयणाद्यनापत्तेरित्यत आह । नलोपः सुप् ॥ नस्य लोपो नलोप । विधिशब्दो भावसाधन । विधान विधि । सुग्च स्वरश्च सज्ञा च तुक्च तेषा विधय इति सम्बन्धसामान्यषष्ठया समास । कृतीति तु तुकैव सम्बध्द्यते । अन्यत्रासम्भ वात् । तदाह । सुब्विधावित्यादिना ॥ सुपो विधि सुविधि । सम्बन्धसामान्य विव क्षितम् । सुबाश्रयविधानिति यावत् । स्वरस्य विधि । कर्मणशेषत्वविवक्षया षष्ठी । स्वरे विधेये इति यावत् । एव सज्ञाविधावित्यपि कर्मणश्शेषत्वविवक्षया षष्ठी । सज्ञाया विधेयाया मिति यावत् । कृति परतो यस्तुक् तस्य विधि कृतितुग्विाधि । इहापि कर्मणश्शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक् तस्मिन् विधेये इति यावत् । 'पूर्वत्रासिद्धम्' इत्येव सिद्धे अन्यनि वृत्तिफलकनियमार्थमेतदित्याह। नान्यत्रेति । अन्यत्रेत्येतदुदाहृत्य दर्शयति । राजाश्व इत्यादाविति ॥ आदिना दण्डयश्च इत्यादिसङ्गह । अत्र सवर्णदीर्घयणादिविधीना सुविद्याद्यनन्तर्भावात् तेषु कर्तव्येषु नलोपस्यासिद्धत्वाभावे सति, नकारलोपस्य सत्त्वात् सवर्णदीर्घदिक निर्बाधमिति भाव । राजभ्याम्, राजभि, राजभ्य , इत्यत्र दीर्घादि न भवत्येवेत्यत आह । इत्यसिद्धत्वादिति ॥ सुपि परतो दीर्घविधि । भिस ऐस्विधि, भ्यसि एत्वविधिश्च, सुबाश्रयविधय इति, तेषु कर्तव्येषु परिसङ्खयाविधिलभ्या सिद्धत्वनिषेधाभावे सति “पूर्वत्रासिद्धम्’ इति नलोपस्यासिद्धत्वान्न दीघदिकमित्यर्थ वस्तुतस्तु अन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एव “पञ्च पञ्च नखा भक्ष्या ” इत्यत्र पञ्चाना पञ्चनखप्राणिना भक्षणनियमे तदितरेषा पञ्चनखाना भक्षण प्रतिषेधो गम्यते ?” इति पस्पशाह्णिकभाष्ये प्रपञ्चितम् । तदाह । इत्यसिद्धत्वादिति ॥ ननु दण्डिष्वित्यत्र नलोपे कृते इण परत्वात् सस्य षत्वामिति स्थिति । तत्र षत्वविधेस्सुबा श्रयविधित्वात् तत्र कर्तव्ये नलोपस्यासिद्धत्वात् कथ षत्वमिति चेन्मैवम् । न हि षत्वविधि स्सुविधि । सुप्त्वन्तद्याप्यधर्म वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुविधिरिह विवक्षित . । नच षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्येवेति षत्व निर्बाधम् । अस्तु वा षत्वविधिरपि सुव्विधि । तथापि तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वन्न भवत्येव । तदसिद्धत्व