पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२३६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३५१ । द्वितीयाटौस्स्वेनः । (२-४-३४)

द्वितीयाया टौसोश्च परत इदमेतदोरेनादेश स्यादन्वादेशे । “किञ्चित्कार्य वेधातुमुपात्तस्य कार्यान्तर विधातुं पुनरुपादानमन्वादेश ' । यथा “ अनेन व्याकरणमधीतम्’ “एन छन्दोऽध्यापय' इति । * अनयो पवित्रं कुलम् एनयो, प्रभूत स्वम्’ इति । एनम्, एनौ, एनान् । एनन, एनयो । इति मान्ता ।

॥ अथ हलन्तपुलॅिङ्गे णकारान्तप्रकरणम् ॥

गणयतेर्विच । सुगण्, सुगणौ, सुगण । सुगण्ट्सु -सुगण्ठ्सु सुगण्सु । क्विप् । “ अनुनासिकस्य किझलो –’ (सू २६६६) इति दीर्घ । सुगाणु, सुगाणौ, सुगाण. । सुगाण्ट्सु -सुगाण्ठूसु-सुगाणुसु । इति णान्ता ।


इति भाष्ये स्पष्टम् । द्वितीयाटौस्स्वेनः ॥ द्वितीया च टाश्च ओश्च द्वितीयाटौस, तेष्विति द्वन्द्व । ‘इदमोऽन्वादेशे' इत्यत इदम इति, अन्वादेश इति चानुवर्तते । “एतदस्त्रतसो । इत्यत. एतद इति च । तदाह । द्वितीयायामित्यादिना । अन्वादेशशब्द व्याचष्टे । किञ्चिदिति ॥ विधातुमिति ॥ अपूर्व बोधयितुमित्यर्थ । अन्वादेशमुदाहृत्य दर्शयति यथेति ॥ उदाहरणप्रदर्शने यथाशब्द । “ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य । एतमात डित विद्याद्वाक्यस्मरणयोरडित्” इत्यत्र तु एनादेशो न । पूर्वार्धस्य यच्छब्दयोगे अनुवादत्वात् । ‘किञ्चित् कार्य विधातुमुपात्तस्य’ इत्यत्र च पूर्ववाक्ये यथाकथञ्चित्तदुपादान विवक्षितम्, न त्विदमेवेत्याग्रह इति भाष्ये स्पष्टम् ॥ इति मान्ता । • अथ णकारान्ता निरूप्यन्ते । गणयतेर्विजिति ॥ “गण सख्याने' इति चुरादि, अदन्त । तत. सुपूर्वात् स्वार्थे णिच । अलोपस्य स्थानिवत्वात् नोपधावृद्धि । तस्माद्विच् । “ अन्येभ्योऽपि दृश्यते' इति वचनात् णिलोप, अपृक्तलोप , ततस्सु बुत्पत्ति, हल्डयादिना सुलोप. । सुगण् इति रूपम् । सुगणौ, सुगुण , इत्याद्यविकृतमेव । सुपि “ड्णो कुकटुक्शरि' इति, टुग्विकल्प । “चयो द्वितीया ' इति टस्य ठ. इत्यभिप्रेत्य आह । सुगण्ठ्सु इति ॥ द्वितीयाभावे रूपमाह । सुगण्ट्सु इति ॥ टुगभावे रूपमाह । सुगण्सु इति । क्विपि सुगाणिति ॥ गणधातोरदन्तात् णिचु, अल्लोप । तस्य स्थानि