पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


ल, मकारान्तप्रकरणम्]
२३१
बालमनोरमा ।

। अथ हलन्तपुलॅिङ्गे लकारान्तप्रकरणम्

कमल कमलां वा आचक्षाण कमल्, कमलौ, कमल । षत्वम् । कमल्षु । इति लान्ता ।

॥ अथ हलन्तपुलॅिङ्गे मकारान्तप्रकरणम् ॥

३४१ । मो नो धातोः । (८-२-६४)

मान्तस्य धातोर्न स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशा म्यतीति प्रशान्, प्रशामेौ, प्रशाम । प्रशान्भ्यामित्यादि ।


अथ लकारान्ता निरूयन्ते । कमलमिति ॥ कमल पद्मम् । क्रमला लक्ष्मी । कमलमाचष्टे इत्यर्थे कमलशब्दात् कमलामाचष्ट इत्यर्थे कमलाशब्दान् ‘तत्करोति तदाचष्टे' इति णिचि * सनाद्यन्ता इति धातुत्वात् तदवयवस्य सुपो लुकि “णाविष्टवत् प्रातिपदिकस्य ’ इति इष्टवत्त्वाट्टिलोपे कमल् इत्यत कर्तरि क्विपि “णेरनिटि' इति णिलोपे अपृक्तलोपे कमल् इति रूपम् । ततस्सोर्हत्डयादिलोपे कमल् इति रूपम् । कमलाविति ॥ औजसादिषु न कोऽपि विकार इति भाव । कमलम्, कमलौ, कमल । कमला, कमल्भ्याम्, कमल्भि । कमले। कमल्भ्य । कमल । कमल, कमलो, कमलाम् । सुपि विशेषमाह । षत्व कमलुष्विति ॥ लकारस्य इण्त्वादिति भाव । तोयमाचष्टे तोय् इत्यादियकारान्तास्तु न सन्त्येव । क्विपि “लोपो व्यो' इति यलोपस्य दुर्वारत्वात् । णिलोपस्य स्थानिवत्वन्तु न भवति । यलोपे तान्निषेधात् । वस्तुतस्तु ‘न पदान्ता हलो यणस्सन्ति’ इति लण्सू त्रस्थभाष्यात् अनभिधानमेवञ्जातीयकानामिति हरदत्त । “भोभगो' इति सूत्रे वृक्षव् करो तीति भाष्यन्तु एकदेश्युक्तिरिति तदाशय इत्यलम् ॥ इति लान्ता । अथ मकारान्ता• निरूप्यन्ते । अथ प्रपूर्वात् शमुधातो क्विपि * अनुनासि कस्य किझलो* क्डिति' इति दीर्घ सति निष्पन्ने प्रशाम्शब्दे विशेषमाह । मो नो धातोः ॥ म इति षष्ठयन्त धातेरित्यस्य विशेषणम् । तदन्तविधि । पदस्येत्यधिकृतम् । ‘स्को- स्सयोगाद्यो.' इत्यतो अन्ते इत्यनुवर्तते । तदाह। मान्तस्य धातोरित्यादिना ॥ ‘अलोऽन्त्य