पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३३२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

४४९ । कृन्मेजन्तः । (१-१-३९

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारंस्मारम् । जीवसे । पिबद्ध्यै ।

४५० । क्त्वातोसुन्कसुनः । (१-१-४०)

एतदन्तमव्ययं स्यात् । कृत्वा । उदेतो । विसृप

४५१ । अव्ययीभावश्च । (१-१-४१)

अधिहरि

४५२ । अव्ययादाप्सुपः । (२-४-८२

)

अव्ययाद्विहितस्याप सुपश्च लुक् स्यात् । तत्र शालायाम् । अथ विहित विशेषणान्नेह । अत्युच्चैसौ अव्ययसज्ञायां यद्यपि तदन्तविधिरस्ति, तथापि न गौणे । “ आब्ग्रहणं व्यर्थमलिङ्गत्वात्' (वा १६३३) इति सूत्र न कर्तव्यमिति भाव । कृन्मेजन्त।। कृत् मेजन्त इत छेद म् च एच्च मेचौ तौ अन्ते यस्यति बहुव्रीहि । तदाह । कृद्यो मान्तः इति ॥ तदन्तमिति ॥ केवलस्य कृत प्रयोगानर्हत्वात् सज्ञाविधावपि तदन्तविधिरिति भाव स्मार स्मारमिति ॥ “आभीक्ष्ण्ये णमुल् च' इति स्मृधातोर्णमुलु 'अचो ञ्णिति' इति वृद्धि, रपरत्वम्, “नित्यवीप्सयो ' इति द्वित्व मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति ॥ 'तुमर्थे सेसनसे' इत्यादिना असेप्रत्यय पिबद्ध्यै इति ॥ तुमर्थे से इत्यादिना शध्यैप्रत्यय । शित्वात् सार्वधातुकत्वम् ।पाघ्रा

मास्थानम्नादाण्दृश्यर्तिसर्तिशदसदाम् इति पिबादेश इति भाव , शप् तु न, कत्रैर्थे सार्वधातुके तद्विधे “अव्ययकृतो भावे' इति सिद्धान्तादित्याहु क्त्वातोसुन्कसुनः ॥ कृत्वेति समानकर्तृकयेो ' इति क्ता । उदेतोरिति ॥ उत्पूर्वादिण भावलक्षणे इत्यादिना तोसुन्। वि सृपः इति ॥ सृपितृदो कसुन् । अव्ययीभावश्च ॥ अव्ययसज्ञस्स्यादिति शेष । अधि हरीति ॥ विभक्तयर्थेऽव्ययीभाव, हरावित्यर्थ अव्ययादाप्सुप " आप् च सुप् च आप्सुप् तस्य आप्सुप, समाहारद्वन्द्वात् षष्ठी । “ण्यक्षत्रियार्ष' इत्यतो लुगित्यनुवर्तते । तदाह अव्ययाद्विहितस्येति ॥ तत्र शालायामा तत्रेत्यस्याव्ययत्वात् आपो लुक् । स्त्रीत्व बोधनाय शालायामिति । अथेति । अत्र सुपो लुक् । विहितेति ॥ अव्ययात्परस्येत्यनुत्का अव्ययाद्विहितस्येति व्याख्यानादिति भाव अत्युचैसाविति ॥ उचैरतिक्रान्त इति विग्रहे अत्यादय क्रान्ताद्यर्थे द्वितीयया' इति समास । अधिकरणशक्तिप्रधानान्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा दोषामन्यमह, दिवाभूता रात्रिरिति । अतो द्वितीयासम्भवात्। अत्यादय' इति द्वितियासमासस्याविरोध । अत्र समासाद्विहितस्य सुप अव्ययभूतादुच्चैश्शब्दात् परत्वेऽपि ततो विहितत्वाभावात् न लुक्। अत्युच्चैरिति समुदायस्य तु नाव्यत्वम्, स्वरादिगणे पात्रा