पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


प्रकरणम्]
३३१
बालमनोरमा ।

४४८ । तद्धितश्चासर्वविभक्तिः । (१-१-३८)

यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादय. प्राक्पाशप । शस्प्रभृतय प्राक्समासान्तेभ्य । अम् । आम् । “कृत्वोऽर्था ' । तसिवती । नानाञ्ञाविति । तेनेह न । पचतिकल्पम् ।

अथ स्वरादिचादिभिन्नान्यव्ययान्याह । तद्धितश्चासर्वविभक्ति. ॥ असर्व विभक्तिरिति बहव्रीहि । तत्र सर्वा विभक्तय यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न सम्भवति । अव्ययेभ्य सप्ताना विभक्तीना उत्पत्त्यभ्युपगमात् । तथाहि “तद्धितश्च इति प्रकृतसूत्रे भाष्ये तावत् 'ह्येकयोर्द्धिवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रविन्यास भड्का ‘एकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनम्’ इति सूत्रन्यास कृत्वा एकवचनमुत्सर्गत करिष्यते, द्विबह्वोरर्थयो, तस्य द्विवचनबहुवचने बाधक, इत्यादि स्थितम् । ततश्च एकवचनामि त्यनेन डयाप्प्रातिपदिकात् एकवचनम्भवतीति सामान्यविधिना द्वित्वबहुत्वाभावे एकवचनमिति लभ्यते । एवञ्च द्विव्हुत्वाभावे, सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहु त्वयो द्विवचनवहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्’ इति सूत्र कर्म त्वाद्यभावेऽपि प्रापणार्थ सम्पद्यते । तथाच अलिङ्गसख्येभ्योऽव्ययेभ्य एकवचन प्रवर्तमान विनि गमनाविरहात् सर्वविभक्त्यैकवचन भवति । अत एव “ अव्ययादाप्सुप ? इत्यत्र प्रत्याहारग्रहण मर्थवत्। तस्मात्सर्वा विभक्तय यस्मादिति न विग्रह, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवत् अवयवकार्त्स्न्यें वर्तते । एवञ्च सर्वा वचनत्रयात्मिका विभक्ति यस्मान्नोत्पद्यते, किन्त्वेकवचना न्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसज्ञस्यादिति फलतीत्यभिप्रेत्य आह । यस्मादिति । सर्वेति ॥ वचनत्रयात्मिकेत्यर्थ । नोत्पद्यते इति ॥ किन्त्वेकवचनान्येवोत्पद्यन्ते इति शेष । स्यादेतत्, तिडश्चेत्यनुवृत्तौ ‘प्रशसाया रूपप्’ इति रूपप्रत्यये “ईषदसमाप्तौ कल्पप्' इति कल्प प्प्रत्यये च पचतिरूप पचतिकल्पमिति रूपम्। प्रशस्त पचति ईषत् पचतीत्यर्थ । अत्राप्यव्ययत्व स्यात्, असर्वविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्दे अतिव्याप्ति, तस्याप्यसर्वविभक्तितद्धि तान्तत्वादित्यत आह । परिगणनमिति ॥ वार्तिकमेतत् । तसिलादयः इति ॥ “पञ्च म्यास्तसिल्' इत्यारभ्य ‘द्वित्रयोश्च धमुञ्’ इत्यन्ता इत्यर्थ । शस्प्रभृतयः इति ॥ ‘बह्वल्पार्थात् इत्यारभ्य 'अव्यक्तानुकरणात् ’ इति डाजन्ता इत्यर्थ । अम्, आमिति। ‘अमुचच्छन्दास ' इत्यम् किमेत्तिडव्यय' इत्याम् च गृह्यते । कृत्वोऽर्थाः इति ॥ “सङ्खयाया क्रियाभ्यावृत्तिगणने कृत्व सुच्, द्वित्रिचतुर्भ्यस्सुच्, विभाषा बहोर्धा' इति त्रय इत्यर्थ । तसिवती इति ॥ “तेनैकदिक् तसिश्च' इति तसि ‘तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्यते ‘प्रतियोगे पञ्चम्यास्तसि' इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम्। एवञ्च स्वरादिषु वदित्यस्य प्रयेोजन चिन्त्यम् । नानाञाविति ॥ विनञ्भ्यान्नानाञौ न सह' इति परिगणन कर्तव्यमित्यन्वय । परिगणनेनैव सिद्धे 'तद्धितश्च