पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

तथाहि । खलु । किल । अथो। अथ। सुष्ठु । स्म । आदह । ‘उपसर्गविभक्तिस्वरप्रति रूपकाश्च'(ग १६) । अवदत्तम्। अहयुः । अस्तिक्षीरा । अ । आ । इ । ई। उ। ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट्। प्याट् । अङ्ग । है । हे । भो. । अये । द्य । विषु । एकपदे । युत् । आत” । चादिरप्याकृतिगण ।।

इति चादय ।


स्वाहा इद त्रय देवहविर्दाने । स्वधा पितृदाने । श्रौषडादीनामनेकाचा त्रयाणा स्वर भेदार्थ उभयत्र पाठ । तुम् तुङ्कारे । तथाहि निदर्शने । खलु निषेधवाक्यालङ्कारनिश्चयेषु । किल इति इवार्थे, वार्तायाम्, अळीके च । अथ अय मङ्गळानन्तरारम्भप्रश्रकात्स्न्याधिकारप्र तिज्ञासमुच्चयेषु । अय स्वरादावपि । तेन मङ्गळवाचकस्य सत्वार्थकत्वेऽप्यव्ययत्वम् । तयाच श्री हर्ष । (श्लो) “यथा कुलाचारमथावनीन्द्रजा पुरन्धिवर्गस्नपयाम्बभूव ताम् ।' इति अथ स्न पयाम्बभूव इत्यस्य मङ्गळस्रान कारयामासेत्यर्थ । निपातश्चाथशब्द मृदङ्गादिध्वनिवत् मङ्गळम् । सुष्ठु स्वरभेदार्थ पुन पाठ । स्म अतीते, पादपूरणे च । आदह उपक्रमहिसाकुत्सनेषु । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ॥ चादिगणसूत्रमतत् । उपसर्गप्रतिरूपका विभक्तयन्त प्रतिरूपका अच्प्रतिरूपकाश्च चादिगणे पाठया इत्यर्थ । तत्रोपसर्गप्रतिरूपकमुदाहरति । अवदत्तम् इति ॥ अत्र अवेत्युपसर्गप्रतिरूपक, नतूपसर्ग । ततश्च “अच उपसर्गात्त ? इति तो न भवति । तादेशे तु अवत्तमिति स्यात् । अहंयुरिति ॥ अहमिति सुबन्तप्रतिरूपकम्, अहङ्कारे। ‘अहशुभ मोर्युस्’ इति मत्वर्थीयो युस्। अत्र अहमिति न युष्मच्छब्दस्य प्रथमैकवचनम्। तथा सति ‘प्रत्ययो त्तरपदयोश्च' इति मपर्यन्तस्य मदादेशे मद्युरित्यापत्ते । अस्तिक्षीरेति ॥ अस्ति क्षीर यस्या इति बहुव्रीहि, अत्र अस्तीति तिडन्तप्रतिरूपकमव्यय, नतु तिडन्तम् । तथा सति बहुव्रीह्यनुपपत्ते । अनेकमन्यपदार्थे' इति बहुव्रीहिविधौ सुबित्यनुवृत्ते । एवञ्च “बहुव्रीहिविधौ * अस्तिक्षीरेत्युप सङ्खयानम्’ इति वार्तिकन्न कर्तव्यम्” इति “अनेकमन्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् । स्वर प्रतिरूपकानुदाहरति । अ इत्यादिना । अ सम्बोधने । आ वाक्यस्मरणयो । इ सम्बोधनजुगु प्साविस्मयेषु । ई, उ, ऊ, ए, ऐ, ओ, औ इति सप्तक सम्बोधने । पशु सम्यगर्थे । शुकम् शैघ्रये । यथाकथाच सङ्घातोऽयमनादरे । पाट्, प्याट्, अङ्ग, है, हे, भोः अये एते सप्त सम्बोधने । द्य हिंसाप्रातिलोम्यपादपूरणेषु । विषु नानार्थे । एकपदे अक स्मादित्यर्थे । युत् कुत्सायाम् । आतः इतोऽर्थे । चादिरप्याकृतिगणः इति । यत्, तत् द्वय हेतौ [ आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे । सुकम् अतिशये । अनु वितकें । शम्बत् अन्त करणे, आभिमुख्ये च । व पादपूरणे, इवार्थे च । चटु, चाटु द्वय प्रियवाक्ये । हुम् भर्त्सने । इव सादृश्ये । अद्यत्वे इदानीमित्यर्थे । इत्यादि । अत्र स्वरा दिचाद्योराकृतिगणत्वेऽपि येषा निपातस्वर इष्ट ते चादिषु, अन्ये तु स्वरादिषु । स्वरद्वय भाजस्तु उभयत्र बोध्या ॥ इति चादय