पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


प्रकरणम्]
३२९
बालमनोरमा ।

च । वा । ह । अह्। एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । किञ्चित् । यत्र । नह । हन्त । माकेि । माकिम् । नकि । आकिम् । नकिम् । माड् । नञ् । यावत् । तावत् । त्वै। द्वै।न्वै । रै। श्रौषट् । वौषट् । स्वाहा। स्वधा । वषट् । ओम्। तुम् ।


इत्यस्यायमर्थ , अवधातोर्मन् स्यात् प्रत्ययस्य टिलोपश्चेति । अव् म् इति स्थिते 'ज्वरत्वर इति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घ, “सार्वधातुक’ इति तस्य गुण , ओमिति रूपम् । उभयोरपि स्वरादित्वम् । नचौणादिकस्य *कृन्मेजन्त ? इत्येव सिद्धमिति वाच्यम् । उणादौ हि 'च्विरव्ययम्' इति पठ्यते । च्व्यन्ताना निपातत्वादेव सिद्धे नियमार्थमिदम् । उणादिपठितानाञ्चादिस्वरादिपठितानाञ्चेदव्ययत्व , तर्हि च्विरेवाव्यय नेतरदिति । ततश्च ओमित्यस्य औौणादिकस्याप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः पृथिव्याम् । भुवर् अन्तरिक्षे । झटिति, द्राक्, तरसा त्रयमिद शैघ्रये । सुषु प्रशसायाम् । दुषु नि कृष्ट । सु पूजायाम् । आः आश्चर्ये । कु कुत्सिते, ईषदर्थे च । अञ्जसा तत्वे, शीघ्रार्थे च । मिथु द्वावित्यर्थे । अस्तम् विनाशे । स्थाने युक्तार्थे । ताजक् शैघ्रये । चिराय चिररात्राय, चिरस्य, चिरम्, चिरेण, चिरात् इति षट्क चिरार्थकम् । वरम् ईषदुत्कर्षे । आनुषक् आनुपूव्यें । अनुषक् अनुमाने । अमेनः शीघ्रसाम्प्रतिकयो । सुदि शुकृपक्षे । वदि कृष्णपक्षे । इत्यादि । इति स्वरादय । अथ चादीनाह । च वा इत्यादिना । च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा विकल्पादिषु । वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये । ह प्रसिद्धौ । अह अद्भुते, खेदे च । एव अवधारणे, अनवक्लृप्तौ च । एवम् उक्तपरामर्शे । नूनम् निश्चये, तर्के च । शश्वत् पौन पुन्ये, नित्ये, सहार्थे च । युगपत् एककाले । भूयस् पुनरर्थे, आधिक्ये च । कूपत् प्रश्रे, प्रशसाया च । कुवित् भूर्यर्थे, प्रशसाया च । नेत् शङ्काया, प्रतिषेधविचार समुच्चयेषु च । चेत् यद्यर्थे । चणु अय चेदर्थे णित्, समुच्चयादिष्वननुबन्धक, स्वरे भेद फलम् । कञ्चित् इष्टप्रश्रे । यत्र अनवक्लृप्तयमर्षगर्हाश्चर्येषु । नावकल्पयामि, नमर्षये गहें, आश्चर्ये वा “यत्र भवान् वृषळ याजयेत् ।’ नह प्रत्यारम्भे । हन्त हर्षे, विषादे, अनु कम्पाया, वाक्यारम्भे च । माकिः, माकिम्,नकिः, इद त्रय वर्जने । माड्नञौ स्वरा दिषूक्तौ। अन्यतरत्र पाठ इति युक्तम् । उभयत्र पाठस्तु व्यर्थ एव । न च निपातस्वरार्थ इह पाठ इति वाच्यम् । ‘फिषेऽन्त उदात्त ? इत्येव तत्सिद्धे । नच सत्ववचनत्वेऽप्यव्ययत्वार्थ स्वरादिपाठ इति वाच्यम् । तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्ते । तस्माच्चादिष्वेव माड् नञौ पाठयावित्याहु । यावत्, तावत् इद द्वय साकल्यावधिमानावधारणेषु । त्वै विशेष वितर्कयो । द्वै वितकें । न्वै इति पाठान्तरम् । रै दाने, अनादरे च । श्रौषट्, वौषट् 2