पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथाव्ययप्रकरणम् ।।

४४७ । स्वरादिनिपातमव्ययम् । (१-१-३७)

स्वरादयो निपाताश्चाव्ययसंज्ञा स्यु । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णिम् । बहस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । “वत्' (ग ४) । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा । तिरस् ।


अथ अव्ययानि निरूप्यन्ते । स्वरादिनिपातमव्ययम् ॥ स्वर् आदि येषान्ते स्वरादय, ते च निपाताश्चेति समाहारद्वन्द्व । फलितमाह । स्वरादयः इति ॥ स्वरादीन् पठति । स्वरित्यादिना ॥ स्वरादीना चादीना पृथक् पाठस्तु “निपाता आद्युदात्ता' इति स्वर भेदार्थ । चादीनामसत्त्ववाचिनामेवाऽव्ययत्वम् । स्वरादीनान्तु सत्त्ववाचिनामसत्त्ववाचिनाञ्च तदिति व्यवस्थार्थञ्च । स्वर स्वर्गे पारत्रिकसुखविशेषे, परलोके च । अन्तर् मध्ध्ये । प्रातर् प्रत्यूषे । पुनर् अप्रथमे विशेषे च । सनुतर् अन्तर्द्धाने । स्वराद्या पञ्च रेफान्ता । तेन स्वर्याति प्रातरत्रेत्यादौ “हशि च' इत्युत्त्वन्न । तत्र 'रो ' इत्युकारानुबन्धग्रहणात् । उच्चैस् महति । नीचैस् अल्पे । शनैस् क्रियामान्ये । ऋधक् सत्ये, वियोगशीघ्रसामीप्यलाघवे ष्वित्यन्ये । ऋते वर्जने । युगपत् एककाले । आरात् दूरसमीपयो । पृथक् भिन्ने । ह्यस् अतीतेऽह्नि । श्वस् अनागतेऽहि । द्विा दिवसे । रात्रौ निशि । सायम् निशामुखे । चिरम् बहुकाले । मनाक्, ईषत् इद द्वयमल्पे । जोषम् सुखे, मौने च । तूष्णीम् मौने । बहेिस्, अवस् इद द्वय बाह्ये । समया समीपे, मध्ये च । निकषा अन्तिके । स्वयम् आत्मनेत्यर्थे । वृथा व्यर्थे । नक्तम रात्रौ । नञ् निषेधे । (श्लो) “तत्सादृश्यमभावृश्च तद न्यत्व तदल्पता । अप्राशस्त्य विरोधश्च नञर्थाष्षट् प्रकीर्तिता ॥” इत्यन्ये । हेतौ निमित्ते । इद्धा प्राकाश्य । अद्धा स्फुटावधारणयो, तत्त्वातिशययोरित्यन्ये । सामि अर्द्धे, जुगुप्सिते च । वत् इत्यनेन ‘तेन तुल्य क्रिया चेद्वति ' 'तत्र तस्येव' “तदर्हम्' इति वतिप्रत्ययो गृह्यते । “उपसर्गाच्छन्दसि धात्वर्थे' इति वतिस्तु न गृह्यते । “परावतो निवत उद्वतश्च' इत्य त्राव्यत्वाभावात् । वस्तुतस्तु 'तद्धितश्चासर्वविभक्ति ' इत्येव सिद्धे वतिग्रहणमिह व्यर्थमेव । ब्राह्मणवत्, क्षत्रियवत् इति वतिप्रत्ययान्तस्योदाहरणम् । केवलप्रत्ययस्य अव्ययत्वे