पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३२६
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तनपुंसकलिङ्गे सकारान्तप्रकरणम् ॥

अर्तिपृवपि-' (उ २७४) इत्यादिना धनेरुस् । षत्वस्यासिद्धत्वाद्रू त्वम् । धनु , धनुषी । ‘सान्त–' (सू ३१७) इति दीर्घ. । “नुम्विसर्जनीय (सू ४३४) इति षत्वम् । धनूषि । धनुषा, धनुर्भ्याम् । एवं चक्षुर्हविरादय. । पिपठिषते. क्विप् “र्वो.–' (सू ४३३) इति दीर्घ. । पिठी., पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावा दजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि पुंवत् । पय पयसी, पयांसि । पयसा, पयोभ्याम् इत्यादि । सुपुम्, सुपुंसी । सुपुमासि । अदः । विभक्तिकार्यम्, उत्वमत्वे । अमू, अमूनि । शेषं पुंवत्

इति सान्ता ।


अथ सकारान्ता निरूप्यन्ते । धनुश्शब्द व्युत्पादयति । धनेरिति ॥ 'जनेरुसि इत्यत उसिरित्यनुवर्तमाने 'अर्तिपृवपियजितनिधनितपिभ्योऽनित्' इत्यौणादिकसूत्रेण “धन धान्ये' इत्यस्माद्धातो उस्प्रत्यय इत्यर्थ । प्रत्ययावयवत्वात् सस्य षत्वे धनुष्शब्द , तस्मात् स्वमोर्लुक्, तत्र षक्रारस्य कथ रुत्वमित्यत आह । षत्वस्येति ॥ धनुरिति ॥ ‘र्वोरुपधाया । इति दीर्घस्तु न । रेफान्तस्य अधातुत्वात् । धनूषीति ॥ ‘नश्च' इत्यनुस्वार । एवं चक्षुर्हवि रादयः इति ॥ ‘चक्षेश्शिच्च' इत्युसि । शित्त्वेन सार्वधातुकत्वात् ख्शाञ्जादेशो न । ‘अर्चिशुचिव हुसृपि' इत्यादिना हुधातोरिस्, ‘सार्वधातुकार्धधातुकयो' इति गुण, अवादेश आदिना सर्पिरा दयो ग्राह्या । पिपठिषतेः क्विबिति ॥ 'पठ व्यक्ताया वाचि' सन्, इट्, द्वित्व, हलादिश्शेष अभ्यासाकारस्य इत्व, प्रत्ययावयवत्वात् षत्व, “सनाद्यन्ता ' इति धातुत्व, पिपठिष इत्यस्मात् क्विप्, अतो लोप, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्यासिद्धत्वाद्रूत्वम् । एतावत्सिद्धवत्कृत्य आह । र्वोरिति दीर्घः इति ॥ पिपठिषी इति ॥ औडश्या रूपम् । शौ विशेषमाह । अल्लोपस्येति ॥ बेभिद्भशब्दनिरूपणे व्याख्यातमतदनुपदमेव प्राक् । पयः इति ॥ 'पय क्षीर पयोऽम्बु च' इत्यमर । पयांसीति ॥ शौ नुम् । ‘सान्त' इति दीर्घ , अनुस्वार, इति भाव । पयोभ्यामिति ॥ रुत्वे, ‘हशि च' इत्युक्त्वे, गुण इति भाव । सुपुमिति ॥ सु शोभन पुमान् यस्य गृहस्य इति बहुव्रीहौ, सुपुस्शब्दात् स्वर्मोलुक्, सयोगान्तलोप । सुपुंसी इति ॥ औड श्या रूपम् । सुमुमांसीति ॥ शे सर्वनामस्थानत्वात् 'पुसोऽसुड्' इत्यसुड् । सुपुस् इ इति स्थिते, झलन्तलक्षणनुमि, ‘सान्तमहत' इति दीर्घ , ‘नश्च' इत्यनुस्वारश्चेति भाव । अद्. इति ॥ अदस्शब्दात् स्वमोर्लुक्, रुत्वविसर्गौं, सान्तत्वात् न मुत्वम्, लुका लुप्तत्वात् त्यदाद्यत्वन्नेति भाव । आडादावाह। विभक्तिकार्यमिति ॥ त्यदाद्यत्वादिकमित्यर्थ । उत्वमत्वे इति ॥ “पूर्वत्रा सिद्धम्' इति विभक्तिकार्योत्तर उत्वमत्वे इत्यर्थ । अमू इति ॥ औडश्शी, त्यदाद्यत्व, पररूप गुण, ऊत्वमत्वे इति भाव । अमूनीति ॥ जश्शसोश्शि , त्यदाद्यत्व, पररूप, अजन्तत्वात् नुम् , उपधादीर्घ , ऊत्वमत्वे इति भाव ॥ इति सान्ता । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाख्याया हलन्तनपुसकलिङ्गप्रकरण समाप्तम् ।