पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


चकारान्तप्रकरणम्]
३२१
बालमनोरमा ।
  • ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् ।

रूपाण्यश्चाक्षिभूतानि (५२७) भवन्तीति मनीषिभिः ।।'


‘खरि च' इति चर्त्वेन ककारे, गवाक्षु-गोअक्षु-गोऽक्ष्विति त्रीणि रूपाणीति स्थिति । तत्र ‘चयो द्वितीया ' इति शास्रदृष्टया चर्त्वशास्त्रस्यासिद्धत्वात् ककारो नास्त्येव । किन्तु गकार एवास्ति, तस्य चयत्वाभावात् *चयो द्वितीया ' इति न भवतीत्यर्थ । तथाचव गतौ त्रयाणामाधिक्यन्निरस्तम् । पूजायान्तु कुक्पक्षे गवाङ्क्षु-गोअड्क्षु-गोऽङ्क्षु इति त्रिषु ककारस्य द्वितीये सति खकार वता त्रयाणामाधिक्यमिष्टमेवेत्याह । कुक्पक्षे त्विति ॥ नचैव सति नवाधिकशतमिति विरो धश्शङ्कय । नवाधिकशतामिति सूत्रकारस्य मतमित्यर्थात् । ऊह्यमेषामिति ॥ प्रदर्शिताना द्वादशाधिकशतरूपाणामित्यर्थ । अ अश्वाक्षिभूतानीति ॥ सप्तविंशत्यधिकपञ्चशतानीत्यर्थ । अश्वशब्दो हि सप्तत्वसङ्खयावच्छिन्नलक्षक । सप्ताश्वा हरितस्सूर्यस्य’ इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसङ्खयावच्छिन्नलक्षक । मनुष्यादिषु प्रायेणाक्ष्णो द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्खयाव च्छिन्नलक्षक । पृथिव्यप्तेजोवाय्वाकाशाना भूतशब्दवाच्याना पञ्चत्वात् । तत्राश्वशब्देन प्रथम निर्दिष्टेन सप्तत्वसङ्खयैव विवक्षिता । अक्षिशब्देन तु द्वितीयनिर्दिष्टेन सूचितया द्वित्वसङ्खयया दशकद्वयात्मिका विंशतिसङ्खया विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्व सङ्खयया पञ्चशत लक्ष्यते । उक्तञ्च ज्यौतिषेण “एकदशशतसहस्रायुतलक्षप्रयुतकोटय क्रमश । अर्बुदमब्ज खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्य मध्ध्य परार्धमिति दशगुणो त्तरास्सज्ञा ।” इति । अत्र अश्वशब्दसूविता सप्तत्वसङ्खयामादौ लिखित्वा तदुत्तरत अक्षिशब्द सूचिता द्वित्वसङ्खया लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्खया लेख्या। अङ्काना वामता गतिरिति वचनात् इत्यादिगणकसम्प्रदायप्रवर्तकलीलावत्यादिग्रन्थतो ज्ञेयम् । तथाच सप्त च। विंशतिश्च पञ्चशतानि च रूपाणि भवन्तीति मनीषिभिरूह्यमित्यर्थ । तथाहि, सौ नवाना रूपाणा मन्त्यवर्णस्य 'अनचि च' इति द्वित्वे तदभावे च अष्टादश रूपाणि । प्रथमाद्विवचने चतुर्णा म्मध्ये पूजार्थाना त्रयाणा अकारस्य “ अनचि च' इति द्वित्वे तदभावे च षड्रूपाणि,

  • अणोऽप्रगृह्यस्य' इति तु न, प्रगृह्यत्वात् । गतौ त्वेकमेव, सङ्कलनया सप्त । जसि तु त्रयाणा

अकारस्य द्वित्वे तदभावे च षड्रूपाणि । षण्णामेषामन्त्यस्य इकारस्य “ अणोऽप्रगृह्यस्य इत्यनुनासिकपक्षे षट्, अनुनासिकत्वाभावपक्षे तु षट् स्थितान्येव, सङ्कलनया जसि द्वादश । तथाच प्रथमाया विभक्तौ सप्तत्रिंशत् । एव द्वितीयाया विभक्तावपि सप्तत्रिंशत् । तृतीयै कवचने तु चतुर्णा मध्ये पूजार्थाना त्रयाणा अकारद्वित्वे तदभावे च षड्रूपाणि, गतौ त्वेकमेव । सङ्कलनया सप्त । एषा सप्तानामन्यस्य आकारस्य अनुनासिकत्वपक्षे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया चतुर्दश । भ्यामि तु षण्णा मध्ये गतौ गकारस्य, पूजाया डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश । एषु यकारस्य ‘यणो मय ' इति द्वित्वे द्वादश । मय इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्विशति, एषु मकारस्य द्वित्वे चतुर्विशति, तदभावे चतुर्विशति स्थितान्येव, सङ्कलनया भ्यामि अष्टाचत्वारिंशत् । भिसि तु षण्णाम्मध्ये गतौ