पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३२०
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

पूजायान्तु, गवाञ्ची-गोअञ्ची-गोऽञ्ची। ‘जशसो. शि' (सू ३१२) शेस्सर्वं नामस्थानत्वान्नुम्, गवाञ्चि-गोअञ्चि-गोऽञ्चि । गतिपूजनयोस्रीण्येव । गोचा गवाञ्चा गोअञ्चा गोडञ्चा । गवाग्भ्याम्-गोअग्भ्याम्-गोऽग्भ्याम्-गवाडू भ्याम्-गोअड्भ्याम्-गोऽड्भ्याम् इत्यादि। सुपि तुडान्तानां, पक्षे ‘ड्णो. कुक् (सू १३०) इति कुक् । गवाङ्क्षु-गोअड्क्षु-गोऽङ्क्षु-गवाङ्षु-गोअड्षुः गोऽङ्षु*-गवाक्षु-गोअक्षु-गोऽक्षु । न चेह “चयो द्वितीया' (वा ५०२३) इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्कयम् । चर्त्वस्यासिद्धत्वात्। कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाभाव. । पक्षे चयो द्वितीयादेशात्त्रीणि रूपाणि वर्धन्त एव ।


तथाच औडेि त्रीणि रूपाणि । पूर्वोदाहृतैकरूपसङ्कलनया प्रत्येक चत्वारि रूपाणि । शेस्सर्वना मेति ॥ गत्यर्थकत्वे नलोपे सति, शौ 'उगिदचाम्' इति नुमि, तस्य “नश्च' इत्यनुस्वार परसवर्ण इति भाव । पूजार्थकत्व तु अलुप्तनकारत्वान्नुम् न । किन्तु स्वाभाविकनकारस्य अनु स्वार परसवर्ण इति भाव । गतिपूजनयो शौ अविकृतान्येव त्रीणि रूपाणीत्याह । गति पूजनयोस्रीण्येवेति ॥ गोचेति ॥ गत्यर्थकत्वे लुप्तनकारत्वात् “ अच ' इत्यल्लोपे एकमेव रूपमिति भाव । पूजार्थत्वे तु अलुप्तनकारत्वात् “अच ' इत्यल्लोपाभञ्चे, अवडि, प्रकृतिभावे पूर्वरूपे च, त्रीणि रूपाणीत्याह । गवाञ्चा-गोअञ्चा-गोञ्चेति ॥ भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जश्त्वे कुत्वे अवडसन्धिपूर्वरूपै त्रीणि रूपाणि । पूजार्थत्वे तु नलो पाभावात् चकारस्य सयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन डकारे अवडस न्धिपूर्वरूपै त्रीणि रूपाणीत्यभिप्रेत्य आह । गवाग्भ्यामित्यादिना ॥ इत्यादीति ॥ गवाग्भि -गोअग्भि-गोऽग्भि –गवाड्भि -गोअड्भि -गोऽङ्भि । गोचे-गवाञ्चे-गोअञ्चे गोऽञ्चे । भ्यामि, भ्यसि च, प्राग्वत् षड्रूपाणि । डसौ,गोच –गवाञ्च -गोअञ्च -गोऽञ्च । भ्यामि भ्यसि च, प्राग्वत् । गोच-गवाञ्च -गोअञ्च गोऽञ्च । डसेि. गोचो -गवाञ्चो -गोअञ्चो गोऽञ्चो । गोचाम्-गवाञ्चाम्-गोअञ्चाम्-गोऽञ्चाम् । गोवि-गवाञ्चि-गोअञ्चि-गोऽञ्चि । ओसि प्राग्वत् । सुपि त्विति ॥ पूजार्थकत्वे नलोपनिषेधात् चकारस्य सयोगान्तलोपे नकारस्य क्विन्प्रत्यस्य’ इति कुत्वेन डकार । ततश्च अवडसन्धिपूर्वरूपै त्रयाणा रूपाणा डकारान्ताना कुगागम इत्यर्थ । कुगभावे तु गवाड्षु-गोअङ्षु-गोऽड्ष्विति त्रीणि रूपाणि सुगमत्वान्नोक्तानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवडसन्धिपूर्वरूपै त्रीणि रूपाणि दर्शयति । गवाक्षु गोअक्षु-गोऽक्ष्विति ॥ तथाच सुपि नव रूपाणि । नन्वेषाम्मध्ध्ये ककारवत्सु षड्रूपेषु ‘चयो द्वितीया ' इति ककारस्य खकारपक्षे षड्रूपाणि संखकाराण्यधिकानि स्युरित्याशङ्कय निराकरोति । नचेहेति ॥ चरत्वस्येति ॥ गतौ नलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्य यद्यप्येतेषा त्रयाणा शब्दस्वरूपाणाम्मूले निवेशन व्याख्यातुरनभिमतमिति प्रतीयते तद्वचनभङ्ग्या । तथापि पठनपाठनपथवर्तिषु बहुषु पुस्तकेषूपलम्भात् अत्रापि मूले तदादरण मिति मन्तव्य वाचकमहाशयै ।