पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


चकारान्तप्रकरणम्]
३१९
बालमनोरमा ।

स्वम्सुप्सु नव षड् भादौ षट्के स्युरुत्रीणि जशसो. । चत्वारि शेषे दशके रूपाणीति विभावय ।।'

तथाहि । गामञ्चतीति विग्रहे *ऋत्विग्-' (सू ३७३) आदिना क्विन् । गतौ नलोप । * अवड् स्फोटायनस्य' (सू ८८) इत्यवड् । गवाक्-गवाग । सर्वत्र विभाषा-' (सू ८७) इति प्रकृतिभावे, गोअक्-गोअग् । पूर्वरूपे गोऽक्-गोऽग् । पूजाया, नस्य कुत्वेन ड । गवाड्-गोअड्-गोऽड् । अम्यप्ये तान्येव नव । औड शी, भत्वात् “ अच ' (सू ४१६) इत्यल्लोप । गोची ।


इति ॥ “ अनिदिताम्' इत्यञ्चेर्गतौ नकारस्य लोप । पूजायान्तु 'नाञ्चे पूजायाम्' इति निषेधान्नस्य लोपो नेत्येव गतिपूजात्मकार्थभेदनिबन्धननलोपतदभावाभ्यामिति यावत् । अस न्धीति ॥ प्रकृतिभावो विवक्षित । असन्ध्यवड्पूर्वरूपैरित्यनन्तर चशब्दोऽध्द्याहर्तव्य । शतमित्य नन्तरमितिशब्दश्च । तथाच गत्यर्थपूजार्थभेदनिबन्धननलोपतदभावाभ्याम् असन्ध्यवड्पूर्वरूपैश्च गवाक्छब्दस्य रूपाणि नवाधिकशतमिति मत सम्मतमित्यर्थ । एतेन 'विंशत्याद्यास्सदैकत्वे सङ्खया सङ्खयेयमङ्खययो ' इति कोशात् शतशब्दस्य सङ्खयापरत्वे गवाक्छब्दस्य रूपाणामिति भाव्यम् । सङ्खयेयपरत्चे तु मतमित्येकवचनानुपपत्तिरिति निरस्तम् । सङ्खयेयपरत्वमाश्रित्य इतिशब्दमध्द्याहृत्य नवाधिकशत रूपाणीत्यर्थाश्रयणात् । यद्वा शतशब्दस्य सङ्खयेयपरत्वेऽपि शतमित्येकत्वाभिप्रायम्मतमित्येकवचनमित्यदोष । नवाधिकशतमित्येतत् प्रपञ्चयति । स्वम् सुप्सु नवेति । प्रत्येकमिति शेष । रूपाणीति सर्वत्रान्वेति । षड् भादौ षट्के स्युरिति । भिसि, भयान्त्रये, भ्यस्द्वये, च प्रत्येक षडित्यर्थ । त्रीणि जश्शसोरिति ॥ प्रत्येकमिति शेष । चत्वारि शेषे दशके इति ॥ प्रत्येकामिति शेष । स्वम्सुप्सु नवेत्येतदुपपादयति । तथा हीति । गामञ्चतीति ॥ गा गच्छति पूजयति वेत्यर्थ । क्विनि उपपदसमासे सुब्लुकि गा अञ् इति स्थिते प्रक्रिया दर्शयति । गतौ नलोपः इति ॥ गत्यर्थकत्वे 'अनिदिताम्' इति नस्य लोप इत्यर्थे । गवाक्-गवागिति ॥ गो अच् स् गो अच् अम् इति स्थिते, स्वमोर्लुकि. अक्लीबस्येति पर्युदासात् सर्वनामस्थानत्वाभावेन ‘उगिदचाम्’ इति नुमभावे, ओकारस्य अवडादेशे सर्व्णदीर्घ, जश्त्वचर्त्वे इति भाव । सर्वत्रेति ॥ अवडादेशस्य वैकल्पिकत्वात्तदभावपक्षे “सर्वत्र विभाषा' इति प्रकृतिभावात् 'एड पदान्तादति' इति पूर्वरूपस्याप्यभावे सतीत्यर्थे । पूर्वरूपे इति ॥ अवड प्रकृतिभावस्य चाभावे ‘एड पदान्तात्’ इति पूर्वरूपे सतीत्यर्थ । तदेव गत्यर्थकत्वे षड्रूपाणि । पूजायामिति ॥ ‘नाच्चे पूजायाम्' इति नलोपाभावात् गो अञ्च् इत्यस्मात् स्वमोर्लुकि, चकारस्य सयोगान्तलोपे, नकारस्य ‘क्विन्प्रत्ययस्य कु ' इति कुत्वेन डकार । तत अवडि, प्रकृतिभावे, पूर्वरूपे च, त्रीणि रूपाणीति भाव । पूर्वोदाहृतषड्रूपसङ्कलनया सौ नव रूपाणि । औडः शीति ॥ गत्यर्थकत्वे नलोपे औडश्शीभावे च सति अक्लीबस्येति पर्युदासा दसर्वनामस्थानतया भत्वात् “ अच ' इत्यलोपे गोची इत्येकमेव रूपम् । अकारस्य लुप्तत्वेन अवडाद्यसम्भवात् । पूजायां त्विति । अलुप्तनकारत्वात् 'अच.' इत्यलोपो नेति भाव. ।