पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

बेभिद्, बेभिदी। शावल्लोपस्य स्थानिवत्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्वाभावात् । बेभिदि ब्राह्मणकुलानि । चेच्छिदि ।

इति ढान्ता

॥ अथ हलन्तनपुंसकलिङ्गे चकारान्तप्रकरणम् ।।

“गवाक्छब्दस्य रूपाणि क्लीवेऽर्चागतिभेदत असन्ध्यवड्पूर्वरूपैर्नवाधिकशतम्मतम् ।


अन्वादेशे नपुसकैकवचने एनद्विधानादिति भाव । औडेि जश्शसोश्च एन, एनानि । बेभिद्यतेरिति ॥ श्तिपा निर्देशोऽयम् । बेभिद्य इति यडन्ताद्धातोरित्यर्थ । 'भिदिर् विदारणे ' । अस्मात् यडि “सन्यडो ' इति द्वित्वे, हलादिशेषे , “ अभ्यासे चर्च' इत्यभ्यास भकारस्य जश्त्वेन बकारे, 'गुणो यड्लुको ' इति गुणे, बेभिद्य इति रूपम् । तस्मात् “सना धन्ता ' इति धातुत्वात् क्विप् , अतो लोप यस्य हल ' इति यलोप।बेभिद्शब्दात् स्वमेोर्लुक्, जश्त्वचत्वें बेभिद्--बेभित् इति रूपमिति भाव । बेभिदी इति ॥ औड इया रूपम् । जश्शसोश्शो झलन्तलक्षणनुममाशङ्कय आह । शीविति ॥ स्थानि वत्त्वादिति ॥ “ अञ्च परस्मिन्' इत्यनेनेति शेष । न चात्र अल्लोपस्थानिभूतादच पूर्व दकार एव, न विकार, तस्य दकारेण व्यवधानात् । तथाच तस्य नुम्विधि स्थानिभूता दच पूर्वस्य विधिर्नेति वाच्यम् । “अच परस्मिन्’ इत्यत्र व्यवहितपूर्वस्यापि ग्रहणस्योक्त त्वात् । ‘क्वौ लुप्त न स्थानिवत्' इति तु न सार्वत्रिकमिति “दीवीवेवीटाम्' इत्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वात् झलन्तलक्षणनुमोऽभावेऽपि अजन्तलक्षणो नुम् दुर्वार इत्यत आह । अजन्तलक्षणस्तु नुम् नेति । कुत इत्यत आह । स्वविधौ स्थानि वत्वाभावादिति ॥ अल्लोपस्य स्थानिवत्वमाश्रित्य मित्वादन्त्यादच पर प्रवर्तमानो हि नुम् दकारोपरितनस्य अकारोपलक्षितदेशस्योपरि प्रवृत्तिमर्हति । तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्विधि । तस्मिन् कर्तव्येल्लोस्थानिवत्व न सम्भवति । स्थान्यपेक्षया पूर्वस्यैव विधौ अच परस्मिन्’ इत्यस्य प्रवृत्ते । स्थानिवत्सूत्रमपि स्थानिभूतस्य कार्यविधौ न प्रवर्तते।

अनाल्विधाविति निषेधादित्यर्थ । अच परस्मिन्’ इति सूत्रे ‘पूर्वविधावित्यपनीय अपरविधाविति वक्तव्य, स्वविधौ स्थानिवत्त्वार्थम्’ इति वार्तिकन्तु भाष्ये प्रत्याख्यातमित्यदोष ॥ इति दकारान्ता । अथ चकारान्ता निरूप्यन्ते । “जायन्ते नव सौ तथामि च नव भ्याभिस् भ्यसा सङ्गमे षट्सङ्खयानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि । चत्वार्यन्यवचस्सु कस्य विबुधाश्शब्दस्य रूपाणि तज्जानन्तु प्रतिभास्ति चेन्निगदितु षाण्मासिकोऽत्रावधि ॥” इति प्राची नस्य कस्यचित् प्रश्रस्य श्लोकद्वयेन तदुत्तरमाह । गवाक्छब्दस्येति ॥ अर्चागतिभेदतः