पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३१६
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तनपुंसकलिङ्गे जकारान्तप्रकरणम् ।।

असृज’ पदान्ते कुत्वम्, सृजे क्विनो विधानान् । विश्वसृडादौ तु न । सृजिदृशो –’ (सू २४०५) इति सूत्रे * रज्जुस्सृड्भ्याम्' इति भाष्यप्रयो गात् । यद्वा * ब्रश्च-'(सू २९४) आदिसूत्रे सृजियज्यो पदान्ते षत्वं कुत्वा पवाद् । स्रगृत्विक्छब्दयोस्तु निपातनादेव कुत्वम्। असृक्छब्दस्तु अस्यतेरौ


अथ जकारान्ता निरूप्यन्ते । शरीर यदा उत्पद्यते तदैव सृज्यते नदन्तादिवन्मध्ये इत्यर्थ सृजवधातो नञ्पूर्वात् सम्पदादित्वात् क्विप्, उपपदसमासे “नलोपो नज ’ इति नकार लोपे, असृज्शब्द रक्तपर्याय नपुसकलिङ्ग । “रुधिरासृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमर । तस्य स्वमोर्लुकि विशेषमाह । अस्सृज. पदान्ते कुत्वमिति ॥ 'क्विन्प्रत्ययस्य’ इति कुत्व स्यासिद्धत्वात् “चो कु ' इति प्राप्त कुत्व बाधित्वा तदपवादे व्रश्चादिषत्वे कृते, तस्य क्विन्प्रत्ययस्य ' इति कुत्वेन खकार , अघोषश्वासविवारमहाप्राणत्वसाम्यादित्यर्थ । नच षत्वस्य निरवकाशत्व शङ्कयम् । सृष्टमित्यादौ अपदान्ते “क्विन्प्रत्ययस्य कु ' इति कुत्वाभाव स्थले षत्वस्य चरितार्थत्वात् । ननु क्विन्नन्तत्वाभावादिह * क्विन्प्रत्ययस्य ' इति कुत्व कुत इत्यत आह । सृजेः क्विनो विधानादिति ॥ ऋत्विगादिसूत्रेण इति शेष । तथाच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणादिहापि कुत्व निर्बाधमिति भाव । भाष्यप्रयोगादिति ॥ नच 'रज्जुसृड्भ्याम्' इति भाष्यप्रयोगात् विश्वसृडादौ कथ कुत्वाभाव इति वाच्यम् । ज्ञाप कस्य सामान्यापेक्षत्वात् । नचैव सति असृज्शब्देऽपि कुत्व न स्यादिति वाच्यम् । अनव्यय पूर्वपदस्य सृजेरेव भाष्यप्रयोगत कुत्वाभावबोधनादिति भाव । ननु उदाहृतभाष्यप्रयोगात् विश्वसृड्रज्जुसृडादौ षत्वसिद्धावपि देवान् यजतीति देवेट् इत्यादौ 'चो कु ' इति कुत्वस्या सिद्धत्वात् व्रश्चादिना षत्वे, तस्य “क्विन्प्रत्ययस्य कु ' इति कुत्व दुर्वारमित्यस्वरसादाह । यद्वेति ॥ षत्वं कुत्वापवादः इति । यद्यपि सृष्टमित्यादौ अपदान्ते षत्व सावकाशम् । तथापि यजिसृज्यो पूर्वोत्तरसाहचर्येण पदान्तेऽपि विशिष्यविहितत्वान्निरवकाशत्वाच्च पदान्तविषये षत्व कुत्वापवाद । तथाच विश्वसृडादौ देवेडादै च षत्वर्निबाधम् । अत एव 'सृजिदृशो ' इति सूत्रे रज्जुस्सृड्भ्यामिति काम्यज्विधिसूत्रे उपयटकाम्यतीति च भाष्यप्रयोगस्सङ्गच्छत इति भाव । नन्वेव सति स्रगृत्विक्छब्दयोरपि “क्विन्प्रत्ययस्य' इति कुत्व बाधित्वा तव्रश्चादिना षत्व स्यादित्यत आह । स्रगृत्विक्छब्दयोरिति ॥ ऋत्विगादिसूत्रे ऋत्विक् स्रक् इति निपा तनादेव कुत्वमित्यर्थ । नच स्रष्टा यष्टा इत्यादौ अपदान्ते निपातनात् कुत्वापत्तिरिति वाच्यम् । निपातनेन ह्यनयो अपवादभूतषत्वस्य अप्रवृत्तिमात्र बोछद्यते । कुत्वन्तु खशास्त्रेणैव यथायथ भवतीति न दोष । ननु तर्हस्सृक्छब्देऽपि कुत्वापवादघ्षत्व स्यात् । ऋत्विगादिसूत्रे स्रक्छब्द स्यैव कुत्वनिपातनात् इत्यत आह । अस्सृक्छब्दस्त्विति ॥ “असु क्षेपणे' इत्यस्मात् औणा दिके ऋजिप्रत्यये सति निष्पन्नस्य असृक्छब्दस्य ‘व्रश्च' इति षत्वाविषयत्वात् ‘चो कु' इति कुत्वे

  • अनव्ययपूर्वपदे कुत्वाभाव अव्ययपूर्वपदे कुत्वम् ।