पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नकारान्तप्रकरणम्]
३१५
बालमनोरमा ।

इति निषेधाद्रत्वाभावे रु , तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घ । सम्बुद्धौ तु हे दीर्घाहो निदाघ, दीर्घाहाणौ, दीर्घहाण । दीर्घाह्णा । दीर्घहोभ्याम् । दण्डि, दण्डिनी, दण्डीनि । स्रग्वि, स्रग्विणी, स्त्रग्वीणि । वाग्मि, वाग्मिनी वाग्मीनि । बहुवृत्रह वहुवृत्रघ्नी-बहुवृत्रहणी, बहुवृत्रहाणि । बहुपूष, बहुपृष्णी बहुपूषणी, बहुपूषाणि. । वह्वर्यम, बह्वर्यम्णी—वह्वर्यमणी, बह्वर्यमाणि ।

इति नान्ता

दीर्घहन्शब्दान् पुल्लिंङ्गात् स परत्वादुपवादार्धे कृते हल्डयादिना सुलोपे । “अहन ' नि रूत्वे, ‘भेोभगो’ इत्यपूर्वत्वाद्यत्वे, ‘हलि सर्वेषाम्’ इति यलोपे, रूपमिति भाव । ननु मुलोपे कृते रोऽसुपि' इति रत्वे तस्य यत्वन्न भवति । यत्वविधा रो इत्युकारानुबन्धग्रहणात् । तथाच दीघार्हानिदाघ इत्येव युक्तमित्यत आह । इह हल्ङ-यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परत्वेऽपि अकृतव्यूहपरिभाषया हल्ड्यादिलोपात् प्राक् प्रवृत्तिर्न सम्भवति । रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह । तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्यासिद्धत्वान्नान्त लक्षणो दीघेो निर्बाध इति भाव । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्डयादैि लोपात् पूर्वमेव परत्वादुपधादीर्घ इत्येवोचितमित्यलम् । सम्बुद्धौ त्विति ॥ सोरत्र हल्डयादिलोपात् प्रत्ययलक्षणमाश्रित्य ' असम्बुद्धो ' इति प्रवृत्ते उपधादीर्घभावे रुत्वे, “हशि च' इत्युक्त्वे, आद्गुणे, हे दीर्घाहो निदाघ इति रूपमित्यर्थ । अत्र 'रोऽसुपि' इति रत्वविधस्तद न्तेऽपि प्रवृत्तौ फलन्तु नपुसके दीर्घाहर्निदाघजालमित्यादि बोध्द्यम् । दण्डीति ॥ दण्डोऽख्या स्तीत्यर्थे “अत इनिठनौ' इति इनि , दण्डिन्शब्दात् स्वमोर्लुक्, नस्य लोप इति भाव । दण्डिनी इति ॥ औडश्शी । असर्वनामस्थानत्वात् ‘इन्हन्’ इति नियमाञ्च न दीर्घ इति भाव । दण्डीनीति ॥ जश्शसेो शि 'इन्हन्' इति दीर्घ इति भाव । स्रग्वीति ॥ “अस्मायाम धास्रजो विनि ' इति स्रज्शब्दात् मत्वर्थीयो विनि । स्रज् इत्यस्य अन्तर्वर्तिनी विभ क्तिमाश्रित्य पदत्वात् जस्य कुत्व, स्रग्विन्शब्दात् सुबुत्पत्ति । दण्डिवद्रूपाणि । अत्र इन अनर्थ कत्वेऽपि “इन्हन्' इत्यत्र ग्रहण भवत्येव । “ आनिनस्मन्’ इति वचनादिति बोध्द्यम् । वा ग्मीति ॥ ‘वाचेो ग्मिनि ' इति ग्मिनि । तद्धितत्वान्न गकार इन्, चकारस्य जश्त्वम्, कुत्वम् वाग्मिन्शब्दात् सुबुत्पत्ति, स्रग्विदूपाणि । बहव वृत्रहण यस्मिन् मन्वन्तरे इति बहुव्रीहौ। बहुवृत्रहन्शब्दात् स्वमोर्लुकि, नलोपे, बहुवृत्रहेति रूपम् । औडश्श्याम्, अल्लोपे, “हो हन्ते इति कुत्वे, वृत्रघ्नी इति रूपम् । “ अत्पूर्वस्य' इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह । बहुवृत्रहाणीति ॥ शे सर्वनामस्थानत्वेन तस्मिन् परे अल्लोपाभावात् 'इन्हन् इत्युपधादीर्घे 'एकाजुत्तरपदे ण ' इति णत्वमिति भाव । बहुपूषाणीति ॥ बहव पूषण यस्मिन्निति बहुव्रीहि । बहुपूष, बहुपूष्णी ‘रषाभ्याम्' इति णत्वम् । जश्शसोस्तु शि

  • शौ' इति दीर्घ, 'अटकुप्वाड्' इति णत्वम् । बह्वर्यमाणीति ॥ बहव अर्यमणो यस्मि

न्निति बहुव्रीहि बहुपूषवद्रूपाणि ॥

इति नान्ता