पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३१४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

ब्रह्म, ब्रह्मणी, ब्रह्माणि । * सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य ' हे ब्रह्मन्-हे ब्रह्म । 'रोऽसुपि' (सू १७२) । अहर्भाति । *विभाषा डिश्यो (सू २३७) । अह्नी-अहनी, अहानि ।

४४३ । अहन् । (८-२-६८)

अहन्' इत्यस्य रु स्यात्पदान्ते । अहोभ्याम्, अहोभि । इह * अह “अहोभ्याम्’ इत्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते * अहन्' इत्यावर्त्य एकेन नलोपाभावं निपात्य द्वितीयेन रुर्विधेय । तदन्तस्यापि रत्वरुत्वे । दीर्घाण्य हानि यस्मिन् स दीर्घाहा निदाघ । इह हल्डयादिलोपे प्रत्ययलक्षणेन “असुपि


अथ नकारान्ता निरूप्यन्ते । ब्रह्मति ॥ वेदादौ वाच्ये ब्रह्मन्शब्द नपुसकलिङ्ग । वेदस्तत्व तपो ब्रह्म ब्रह्मा विप्र प्रजापति ? इत्यमर । स्वभोर्लुकि नलोप इति भाव । ब्रह्मणी इति ॥ औड शी' ‘अट्कुप्वाड्’ इति णत्वम् । 'विभाषा डिश्यो ' इत्यल्लोपस्तु न । ‘न सयोगा द्वमन्तात्' इति निषेधादिति भाव । ब्रह्माणीति ॥ जश्शसो शि, तस्य सर्वनामस्थानत्वात् नान्तलक्षणो दीर्घ । हे ब्रह्मन्निति ॥ “सम्बुद्धौ नपुसकानाम् ' इति नलोपविकल्प इति भाव । अथ अहन्शब्दात् स्वमोर्लुकि 'अहन्’ इति रुत्वे प्राप्ते आह । रोऽसुपीति ॥ लुका लुप्तत्वेन प्रत्ययलक्षणाभावादिति भाव । अहर्भातीति ॥ अत्र रुत्वे तु 'हशि च' इत्युक्त्वे गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वन्न, रोरित्युकारानुबन्धग्रहणादिति भाव । अहानीति ॥ जश्शसो शि, सर्वनामस्थानत्वात् उपवादीर्घ , अल्लोपस्तु न, सर्वनामस्थान त्वादिति भाव । टादावचि अल्लोप, अहा, अहे, इत्यादि । भ्यामादौ हलेि विशेषमाह । अहन् ॥ 'ससजुषो रु ' इत्यत रुरित्यनुवर्तते । “स्कोस्सयोगाद्यो ' इत्यत अन्त इति च , पदस्येत्यधिकृतम्, अहन् इति लुप्तषष्टीकम् । तदाह । अहन्नित्यस्येत्यादिना ॥ अहो । भ्यामिति ॥ नकारस्य रुत्वे, ‘हशि च' इत्युत्त्चे, गुण इति भाव । ननु अह, अहोभ्यामित्यत्र रत्वरुत्वयोरसिद्धत्वात् नलोपस्स्यात् । नचव रत्वरुत्वे नलोपापवादाविति वाच्यम् । ‘न डिसम्बुद्वद्यो ' इति नलोपनिषेधस्थले हे अहरित्यत्र दीर्धाणि अहानि यस्मिन् स दीर्घाहा, हे दीर्घाहो निदाघ इत्यत्र च, नलोपे असत्यपि रत्वरुत्वयोरारम्भात् इत्याशङ्कय निराकरोति । इहेति ॥ एकेनेति ॥ आवृत्तयो प्रथमेन 'अहन्’ इति सूत्रेण पदान्ते अहन्नित्येव स्यात् न तु नलोप इत्यर्थकेनेत्यर्थ । द्वितीयेनेति ॥ अहन्नित्यस्य रु स्यात् पदान्ते इत्यर्थकेन त्यर्थ । एवञ्च “अहो नलोपप्रतिषेध ' इति वार्तिकन्न कर्तव्यमिति भाव । तदन्तस्यापीति ॥ अहन्शब्दान्तस्यापि रत्वरुत्वे भवत, पदाधिकारस्थत्वादिति भाव । “ग्रहणवता प्राति पदिकेन तदन्तविधिर्नास्ति’ इति निषेधस्तु प्रत्ययविधिमात्रविषय” इति ‘असमासे निष्कादिभ्य इति सूत्रे भाष्यकैयटयोस्पष्टम् । तदन्ते रुत्वप्रवृत्ति दर्शयति । दीर्घाहा निदाघः इति ॥