पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३१२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

दिविधौ प्रतिषेध.' (वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमल दिवि । “ अपदादिविधौ' किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पद्त्वम सत्येव । चकारस्य कुत्वे तु न ।

इति वान्ता ।


मलद्वियति ॥ वस्य उत्वे इकारस्य यणिति भाव । अहर्ग्रहण नपुसकत्वसूचनार्थम् । ननु विमलदिव् औ इति स्थिते ‘नपुसकाञ्च' इति शीभावे विमलदिवी इति रूप वक्ष्यति । तद युक्तम् । 'दिव उत्' इत्युक्त्वप्रसङ्गात् । नच विमलदिवी इति ससुदायस्यैव सुबन्ततया पद त्वान्न वकारस्य दिवशब्दरूपपदान्तत्वमिति वाच्यम्। “सुपो धातु' इति लुप्ता दिवशब्दोत्तरा विभक्तिं प्रत्ययलक्षणेनाश्रित्य दिव् इत्यस्य पदत्वात् । नच लुका लुप्तत्वात् न प्रत्ययलक्षणमिति वाच्यम् । पदसज्ञायास्सुबन्तधर्मतया अङ्गधर्मत्वाभावेन तत्र “न लुमता' इति निषेधाप्रवृत्ते । अन्यथा राज्ञ पुरुष राजपुरुष इत्यादौ पूर्वभागे नलोपादिक न स्यादित्याशङ्कय आह । अन्तर्वर्तिनीमित्यादि ॥ उत्तरपदत्वे चेति ॥ समासे उत्तरखण्डस्य पदसज्ञाया कर्त व्यायाम् “ अन्तर्वर्तिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्य पदादिविधि वर्जयित्वा ' इति वार्तिकमेतत् । विमलदिवी इति ॥ औडेि रूपम् । विमलदिवि इति ॥ शसि सति जश्शसो शि ’ इति शिभावे रूपसिाद्धि । अझलन्तत्वान्न नुम् । दधिसेचाविति ॥ सिञ्चते क्लिप् । दध सेचौ दधिसेचौ समासे पूर्वोत्तरपदावयवसुपोर्लुकेि समासात् पुन सुबु त्पत्तिरिति स्थिति । तत्र उत्तरखण्डादुत्तरा विभक्ति लुप्ता प्रत्ययलक्षणेनाश्रित्य सेच इत्यस्य पदत्वेन तत्सकारस्य पदादितया 'सात्पदाद्यो ' इति षत्वनिषेध इष्ट । 'उत्तरपदत्वे प्रत्ययलक्षण प्रतिषेध ? इत्येतावत्येवोक्त्ते तु सेच् इत्युत्तरखण्डस्य पदसज्ञाया कर्तव्याया प्रत्ययलक्षणप्रतिषेध स्यात् । तथाच सेच् इत्यस्य सुबन्तत्वाभावेन अपदतया तत्सकारस्य पदादित्वाभावेन षत्व निषेधो न स्यात् । अत अपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधाभावेन प्रत्ययलक्षणमाश्रित्य सेच् इत्यस्य पदान्तत्वात् तत्सकारस्य सात्पदाद्यो ' इति षत्वनिषेधो निर्बाध.। ननुसेच् इत्युत्तरखण्डस्य पदत्वेचकारस्य कुत्व स्यादित्यत आह । चकारस्य कुत्वे तु नेति ॥ कुत्वे कर्तव्ये तु सेच् इत्यस्य पदत्वन्नास्त्येव । कुत्वस्य पदान्तविधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्वेन पदत्वाभावा दिति भाव । ननु दधि सिञ्चत इति सोपपदाद्विचि उपपदसमासे षत्व दुर्वारम् । 'गतिकारको पपदाना कृद्भिस्सहसमासवचनस्य प्राक् सुबुत्पत्ते' इति वक्ष्यमाणत्वेन सेच् इत्यस्य अन्तर्वर्तिसुब भावेन अपदान्ततया 'सात्पदाद्यो ' इति निषेधस्य तत्राप्रवृत्तेरिति चेत्, अत्र सोपपदात् सिचे विच अनभिधानादिति भाव इति कैयटस्समाहितवान् । पदात् आदि पदादिरिति पक्षे तु उपपदसमासेऽपि षत्व सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी स प्रिय यस्य स परमदण्डिप्रिय इत्यत्र अवान्तरतत्पुरुषस्य उत्तरखण्डे नलोपानुपपत्ति । “उत्तरपदत्वे च' इति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाभावादिति वाच्यम्। मध्द्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितत्वादित्यास्तान्तावत् ॥

इति वान्ता