पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३००
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

ऋदुशन-' (सू २७६) इत्यनङ् । उशना, उशनसौ, उशनस । “अंस्य स म्बुद्धौ वाऽनङ् नलोपश्च वा वाच्य.' (वा ५०३७) । हे उशनन्-हे उशन हे उशन. । उशनोभ्यामित्यादि । अनेहा, अनेहसौ, अनेहस । हे अनेह । अनेहोभ्यामित्यादि । वेधा., वेधसौ, वेधस । हे वेध . । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घ । सुषु वस्ते सुव , सुवसौ, सुवस । पिण्डं ग्रसते पिण्डग्र., पिण्डग्ल । * प्रसु ग्लसु अदने' ।

४३७ । अदुस औ सुलोपश्च । (७-२-१०७)

अद्स औकारोऽन्तादेश स्यात्सौ परे सुलोपश्च । “ तदो. स* सौ


णार्थ, डित्वादन्तादेश । उशनन् स इति स्थिते उपधादीर्घ , हल्डयादिना सुलोप , नलोप । उशना इति रूपमिति भाव । यद्यपि वशधातुश्छान्दस इति लुग्विकरणे वक्ष्यते । तथापि तत् प्रायिकम् । * वष्टि वागुरि ? इत्यादिनिर्देशातू, *उशना भार्गव कवि ?' इति कोशाच्च । अस्य सम्बुद्धाविति । एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तु सबोधने तूशनसत्रिरूपम् । सान्तन्तथा नान्तमथाप्यदन्तम्--' इति श्लोकवार्तिकमित्याह । भाध्यादृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिका । हे उशनन् इति ॥ अनडि नलोपाभावे रूपम् । हे उशनेति । अनडि नलोपे रूपम् । हे उशनः इति ॥ अनडभावे रूपम् । उशनोभ्यामिति ॥ सस्य रुत्वे हशि च' इत्युक्त्वे “आद्रुण ' उशन सु-उशनस्सु । अनेहेति । नञि “हन एह च' इति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमास , “ नलोपो नञ ', 'तस्मान्नुडचि' अने हस्शब्द । ततस्सु, ‘अत्वसन्तस्य’ इति दीर्घ , सुलोप, रुत्वविसर्गौ इति भाव । हे अनेह । अनेहोभ्यामित्यादि । वेधाः इति ॥ 'विधाञो वेध च' विपूर्वात् धाञ्धातोरसुन् प्रकृतेर्वेधा देशश्च । उभयत्रापि असुनि उकार उच्चारणार्थ । उगित्वाभावान्न नुम्, ततस्सु, असन्त त्वाद्दीर्घ, सुलोप, रुत्वविसर्गाविति भाव । “वस आच्छादने' लुग्विकरण । सुपूर्वादस्मात् क्विप्, सुवस्शब्द , ततस्सु, हल्डयादिलोप, रुत्वविसर्गेों, सुव इति रूप वक्ष्यति । अत्र

  • अत्वसन्तस्य’ इति दीर्घमाशङ्कय आह । अधातोरित्युक्तर्न दीर्घः इति । नच सुवस्

शब्दस्य असन्तत्वादधातुत्वाञ्च दीर्घ दुर्वार इति वाच्यम् । धात्ववयवभिन्न य अस् तदन्तस्य दीर्घ इत्याश्रणात् । सुवोम्यामित्यादि “वस निवासे' इति भौवादिकस्य तु नेद रूपम् । तस्य यजादित्वेन सम्प्रसारणप्रसङ्गात् । पिण्डग्रस्शब्द सुवस्शब्दवत् । अदसूशब्दात् सौ त्यदाद्यत्वे प्राप्त । अदस औ॥ अदस इति षष्ठी । औ इत्यविभक्तिकनिर्देश । “तदो स सौ' इत्यतस्सावित्यनुवर्तते । तदाह । अद्स औकारः इति ॥ अन्तादेश इत्यलोऽन्त्य १ “भाष्यानुक्तत्वादिदमप्रमाणमेव' इति 'प्रामाणिका ? इति शेखर । “सोर्डा' इत्येव सिद्धे अनड्विधानस्यात्रानडि प्रमाणत्वेऽपि नलोपविकल्पो निर्मूल, इति रत्नाकर।