पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


षकारान्तप्रकरणम्
२९५
बालमनोरमा ।

'रो. सुपि' (सू ३३९) इति नियमान्न विसर्ग । चिकीर्षु । “दमेर्डोस् (उ २२७) । डित्त्वसामर्थ्याट्टिलोप । षत्वस्यासद्धत्वाद्रुत्वाविसर्गौ । दोः, दोषौ, दोष. । * पद्दन्नो–' (सू २२८) इति वा दोषन् । दोष्ण . । दोष्णा दोष. । दोषा । 'विश प्रवेशने' । सन्नन्तात्क्विप् । कंत्वस्यासिद्धत्वात्संयोगान्त लोप. * व्रश्च-' (सू २९४) इति ष ' । जश्त्वचत्वें । विविट-विविड विविक्षौ, विविक्ष । “स्को –’ (सू ३८०) इति कलोप . । तट्-तड् तक्षौ, तक्ष्' । गोरट्-गोरड्, गोरक्षौ, गोरक्ष. । तक्षिराक्षिभ्या ण्यन्ताभ्या


इति दीर्घ । तत “सन्यडो ' इति द्वित्वम् । हलादिशेष , ह्रस्व , “कुहोश्चु ' इत्यभ्यासकका रस्य चुत्व, सस्य षत्वम् । चिकीर्ष इति रूपम् “सनाद्यन्ता ' इति धातुत्वात्तत क्विप् । अतो लोप ? चिकीर्ष इत्यस्मात् षकारान्तात् सुबुत्पत्तौ सोहल्डयादिलोपे चिकीर्ष् इति स्थितम् । एतावत् सिद्धवत्कृत्य 'रात्सस्य ' इति नियमात् षकारस्य सयोगान्तलोपाभाव माशङ्कय आह । रात्सस्येति ॥ षत्वस्यासिद्धत्वादिति भाव । एवचिकीभ्यमित्यायूह्यम् । विसर्गमाशङ्कय आह । रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाभावादिति भाव । दमेर्डौसिति ॥ औणादिकमेतत्सूत्रम् । 'दमु उपशमे' इत्येतस्माद्धातोर्डोस्प्रत्ययस्स्या दित्यर्थ । डकार इत् । डित्त्वसामर्थ्यादिति ॥ 'टे ' इति भस्य विहितष्टिलोप इह भत्वाभावेऽपि डित्त्वसामर्थ्यात् भवतीत्यर्थ । सकारस्य प्रत्ययावयवत्वात् षत्व, दोष इति षकारान्त रूपम् । ततस्सोहल्डयादिलोप । एतावत् सिद्धवत्कृत्य आह । षत्वस्यासिद्धत्वा द्रुत्वविसर्गाविति ॥ षत्वस्यासिद्धत्वाद्रुत्वे सति विसर्ग । वा दोषन्निति ॥ शसादाविति शेष । दोष्णः इति ॥ शसि दोषन्नादेशे “अल्लोपोऽन ' इत्यकारलोपे 'रषाभ्याम्' इति णत्वमिति भाव । दो सु-दोषुषु । विवक्षशब्द व्युत्पादयति । विशेति । सन्नन्तादिति ॥ वेष्टुमिच्छतीति विग्रहे विशेस्सन् “हलन्ताच्च' इति सन कित्त्वान्न लघूपधगुण । “सन्यडो इति द्वित्वम् । हलादिशेष । शकारस्य झल्परकत्वात् “त्रश्च' इति ष । “षढो क सि' इति षस्य क । प्रत्ययावयवत्वात् सस्य षत्वम् । “सनाद्यन्ता ' इति धातुत्वात् क्विप् । “ अतो लोप ' विवक्ष इति षकारान्त रूपमित्यर्थ. । कत्वस्येति । विविक्ष इत्यस्मात् सोहल्ड्यादिलोपे षकारस्य सयोगान्तलोप । “स्को ' इति ककारलोपस्तु न शङ्कय । सयोगादिलोपे कर्तव्ये ‘षढो क. सि'इति कत्वस्यासिद्धत्वादित्यर्थ । व्रश्चेति षः इति ॥ सयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्या कत्वस्यापि निवृत्तौ, झल्परत्वनिवृत्या पूर्वप्रवृत्तषत्वस्यापि निवृत्तौ, पदान्तत्वात् ‘व्रश्च' इति शस्य ष इत्यर्थ । जश्त्वचर्त्वे इति ॥ षस्य जश्त्वेन ड, तस्य चर्त्वविकल्प इत्यर्थ । स्कोरिति ॥ 'तक्षू तनूकरणे' अस्मात् क्विप् ततस्सोर्हल्ङयादिलोपे 'स्को ' इति कलोपे षस्य जश्त्वेन ड, तस्य चर्त्वविकल्प इत्यर्थ । तड्भ्याम् । तट्त्सु-तट्सु । गोरडिति ॥


१ षत्वस्येति बहुषु पुस्तकेषु पाठ उपलभ्यते