पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


शकारान्तप्रकरणम्]
२९१
बालमनोरमा ।

इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे रव एव श्रूयते, न तु ग ; जश्त्व प्रति कुत्वस्यासिद्धत्वात् । * दिगादिभ्यो यत्' (सू १४२९) इति निर्देशान्ना सिद्धत्वमिति वा बोध्यम् । “ व्रश्च–' (सू २९४) इति षत्वम्, जश्त्वचर्त्वे । विट्-विड्, विशौ, विश । विशाम् ।

४३१ । नशेर्वा । (८-२-६३)

नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक्-नग् । नट्-नड्, नशौ नश ; । नग्भ्याम्--नड्भ्यामित्यादि ।


धानात् । किन्तु कर्मकर्तरि क्विन् । स इवाय पश्यति, ज्ञानविषयो भवतीत्यर्थ । “दृशेरत्र ज्ञानवि षयत्वापतिमात्रवृत्तित्वादज्ञानार्थता” इति ‘त्यदादिषु दृश' इति सूत्र भाष्ये स्पष्टम्। रूढशब्द एवाय मित्यन्ये। अथात्र कैयटादिमत दूषयति । षत्वापवादन्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्तेऽपि व्रश्वादिषत्वे “क्विन्प्रत्ययस्य कु ' इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धे 'स्पृशेो ऽनुदके क्विन्, त्यदादिषु दृशोऽनालोचने कञ्ज च' इति क्विन्विधान “क्विन्प्रत्ययस्य कु ' इति कुत्वार्थ क्रियमाण घृतस्पृक्, तादृक्, इत्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतष्षत्वापवादत्वमिति भाव । * क्विन्विधान * क्विन्प्रत्ययस्य कु' इति कुत्वार्थमेव' इति ‘स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च शकारविषये कुत्वस्य नासिद्ध त्वमपि । अन्यथा “स्पृशोऽनुदके क्विन्' इत्यादिना स्पृशादे क्विन्विधिवैयर्थ्यात् । उक्तञ्च । पूर्वत्रासिद्धम्’ इत्यत्र भाष्ये “ अपवादो वचनप्रामाण्यात्” इति । खवकारः इतीति ॥ अघोष महाप्राणसाम्यादिति भाव । ख एवेति ॥ तादृक्, तादृग्, इति रूपद्वयमिष्टम् । शका रख्य कुत्वेन खकारे सति तस्य * वावसाने' इति चर्त्वपक्षे तादृक् इति रूपसिद्धावपि चर्त्वा भावपक्षे तादृख् इत्येव स्यात्, तादृग् इति गकारो न श्रूयेतेत्यर्थ । नन्वस्तु शकारस्य खकार । अथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यत आह । जश्त्वं प्रतीति ॥ जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्यासिद्धतया झलो ऽभावेन जश्त्वासम्भवादित्यर्थे । अथ कैयटादिमते उक्तदोष निरस्यति । दिगादिभ्यो यदितीति ॥ 'विश प्रवेशने' क्विप्, विशु इति रूपम् । तस्य विशेषमाह । व्रश्चेति षत्व मिति ॥ विश् स् इति स्थिते हल्डयादिलोपे “व्रश्च' इति शकारस्य षकार इत्यर्थे । जश्त्व चर्त्वे इति ॥ षस्य जश्त्वेन ड । 'वावसाने' इति तस्य चर्त्वेन पक्षे ट इत्यर्थ । विड्भ्याम्। विट्त्सु-विट्सु । “णश अदर्शने' क्विप् । नश् इति रूपम् । ततस्सुबुत्पत्ति । सोर्हल्डयादि लोपे व्रश्चादिना नित्य षत्वे प्राप्ते । नशेर्वा ॥ 'क्विन्प्रत्ययस्य कु ' इत्यत. कुरित्यनुवर्तते स्केोस्सयोगाद्यो ' इत्यत अन्ते इति च । 'पदस्य’ इत्यधिकृतम् । तदाह । नशेः कवर्गः इत्यादिना ॥ अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षे ‘व्रश्च' इति षत्वम् । नक्-नगि ति ॥ कुत्वपक्षे जश्त्वचर्त्वाभ्या रूपे । नट्-नडिति ॥ षत्वपक्षे जश्त्वचर्त्वाभ्या रूपे ।