पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२८८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

क्विेप् । उगिद्चाम्--' (सू ३६१) इति सूत्रेऽज्ग्रहणं नियमार्थम् श्चदुगित्कार्य तर्ह्यतञ्चतेरेव' इति । तेन “स्रत्' ' ध्वत्' इत्यादौ न। अधातो इति त्वधातुभूतपूर्वस्यापि नुमर्थम् । गोमान्, गोमन्तौ, गोमन्त इत्यादि भातेर्डवतु.' (उ ६३) । भवान्, भवन्तौ, भवन्त ।शत्रन्तस्य त्वत्वन्तत्वा भावान्न दीर्घ । भवतीति भवन् ।

४२६ । उभे अभ्यस्तम् । (६-१-५)


..

उगिदचामिति सूत्रे इति ॥ उगितस्सर्वनामस्थाने इत्येतावदेव सूत्रमस्तु । अञ्चतेरुगित्वा देव सिद्धे । अत अज्ग्रहणमतिरिच्यमानन्नियमार्थमित्यर्थ । नियमशरीरमाह । धातोश्रे दिति धाताश्चेदुगित कार्य स्यात् तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थम्, इति पूर्वे णान्वय । नियमस्य फलमाह । तेनेति सन्सु ध्वन्सु गतौ' इत्युगितौ धातू । ताभ्या क्विपि “ अनिदिता हल उपधाया ' इति नलोपे सुबुत्पत्तौ सोर्हल्डयादिलोपे “वसुस्रसुध्वखनडुहा द ' इति दत्वे स्रत ध्वत् इति रूपमिष्टम् । उगितस्सर्वनामस्थाने इत्युक्ते तु अत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थ तर्ह्येतावतैव सिद्धे अधा तेरिति किमर्थमित्यत आह । अधातोरिति त्विति अधातु पूर्वे भूत अधातुभूतपूर्व , अधातुभूतस्यापि नुमर्थमधातोरित्येतादित्यर्थ। ततश्च उगिदचा सर्वनामस्थाने, इत्येक वाक्यम् । तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलो पिनोऽञ्चतेश्च नुमागमस्यादित्यर्थः अधातेरित्यपर वाक्यम् । उक्तो नुमागम अधातुभूत पूर्वस्यापि भवतीत्यर्थ । प्रकृते व क्यजाचारक्विबुत्त्पत्त्यनन्तर धातुत्वे सत्यपि क्यजाद्युत्पत्ते पूर्व अधातुत्वसत्वान्नुम् निर्बाध इत्यर्थ एतत् सर्व “उगिदचाम्' इति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घ नुमि च कर्तव्ये अल्लोपो न स्थानिवत् । दीर्घविधौ तन्निषेधात् क्वौ लुप्त न स्थानिवदित्युक्तश्च । अथ भवच्छब्दे विशेषमाह । भातेर्डवतुरिति ॥ उणादि सूत्रमेतत् । भाधातोर्डवतुस्यादित्यर्थ । डकार इत् । उकार उचारणार्थ । डित्वसार्मथ्या दभस्यापि टेर्लोप भवत् इति रूपम् । भवानिति ॥ भवच्छब्दात् सु।अत्वसन्तस्य इति दीर्घ , “उगिदचाम्' इति नुम्, हल्डयादिलोप, सयोगान्तलोपश्च इति भाव शत्रन्तस्य त्विति ॥ “लटश्शतृशानचौ' इति भूधातोर्लट शतृ आदेश । शकार इत् ऋकार इत्, शप्, गुण, अवादेशश्च, पररूपम्, भवत् इति रूपम् । तस्य तु अत्वन्त त्वाभावादत्वसन्तस्येति दीघौं न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थ । भवन्निति सौ नुमि हल्डयादिलोपे सयोगान्तलोप । भवन्तावित्यादि तु पूर्ववदेवेति भाव । दाञ्धातो लटश्शत्रादेशे शप् । “जुहोत्यादिभ्य श्र्लौ' इति द्वित्वत्, अभ्यासहूस्व श्राभ्य स्तयोरात ? इत्याल्लोप ददत् इति रूपम् । ततस्सुबुत्पत्ति उगिदचाम्' इति नुमि प्राप्ते “नाभ्यस्तात्' इति तन्निषेध वक्ष्यन् अभ्यस्तसज्ञामाह । उभे अभ्यस्तम् ॥ “एकाचेो }