पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


तकारान्तप्रकरणम्]
२८७
बालमनोरमा ।

४२५ । अत्वसन्तस्य चाधातोः । (६-४-१४)

अत्वन्तस्योपधाया दीर्घ स्याद्धातुभिन्नासन्तस्य चासम्बुद्वौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घ । ततो नुम् । धीमान् धीमन्तौ, धीमन्त । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घ । गोमन्तमिच्छति, गोमानिवाचरतीति वा क्यजन्तादाचारकिबन्ताद्वा कर्तरि


भाव । महानिति । नुमि दीर्घ सुलोपे सयोगान्तलोप इति भाव । महान्ताविति । नुमि दीर्घ अनुस्वारपरसवर्णाविति भाव । हे महन्निति । असम्बुद्धावित्यनुवृत्ते ‘सान्त महत' इति दीर्घों नेति भाव । महत. इति । असर्वनामस्थानत्वाच्छसादौ न दार्घ । धी अस्यास्तीत्यर्थे धीशब्दान्मतुप् , पकार इत्, उकार उच्चारणार्थ । तद्धितान्तत्वेन प्राति पदिकत्वात् सुबुत्पत्ति । धीमत् सुम् इति स्थिते । अत्वसन्तस्य । अतु इति लुप्तषष्ठीक पृथक्पदम् । अङ्गविशेषणत्वात्तदन्तविधि । अधातोरित्यसन्तविशेषणम् । “नोपधाया इत्यत उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नासन्तस्य चेति लभ्यते । 'सर्वनामस्थाने चासम्बुद्धौ' इत्यत असम्बुद्धाविति । “सौ च' इत्यतस्साविति * ढ्रलोपे' इत्यतो दीर्घ इति च । तदाह । अत्वन्तस्येत्यादिना । ननु कृते अकृते च दीधेे प्रवृत्त्यर्हस्य नुमो नित्य त्वात् परत्वाच्च मकाराकारात् नुमि कृते अत्वन्तत्वाभावात् कथमिह दीर्घ इत्यत आह । पर मिति । वचनसामर्थ्यादिति ॥ अन्यथा निरवकाशत्वापतिरिति भाव । ततो नुः मिति ॥ दीर्घे कृते नुमित्यर्थ । 'विप्रविषेधे यद्वाधितन्तद्वावितम्' इति त्वनित्यम् । “पुन प्रसङ्गविज्ञानात् सिद्धम् इत्युक्तेरिति भाव । धीमानिति ॥ दीर्घ नुमि हल्डयादिलोपे सयो गान्तलोपे रूपमिति भाव । हे धीमन्निति ॥ असम्बुद्धौ इत्युक्ते न दीर्घ इति भाव । महद्वदिति ॥ असर्वनामस्थानतया शसादौ नुमभावादिति भाव । अत्वसेरिति वक्तव्ये अन्तग्रहणन्तु अन्तमात्रग्रहणार्थम् । अन्यथा उपदशे ये अत्वन्तास्त एव गृह्येरन्, न तु मतु बादय । नह्येते उपदशे अत्वन्ता इत्याहु । नन्वधातारित्येतत् असन्तस्येव अत्वन्तस्यापि विशेषण कुतो नेत्यत आह । धातोरपीति ॥ अत्वन्तधातुत्वेऽपि दीर्घार्थम् अधातोरियेतस्य अत्वन्तविशेषणत्वन्नाश्रितमित्यर्थे । ननु धातुपाठे अत्वन्तधातुरप्रसिद्ध इत्यत आह । गोमन्त मिति ॥ आचरति वेत्यनन्तरम् इत्यर्थे इति शेष । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मन क्यच् इति क्यचि *न क्ये' इति नियमात् पदत्वाभावाजश्त्वाभावे गोमत्यशब्दात् “सनाद्यन्ता इति धातुत्वात् कर्तरि क्विपि अतो लोप । “यस्य हल ' इत्यल्लोपयलोपयो गोमत्शब्दात् सुबु त्पत्ति । गोमानिवाचरतीत्यर्थे तु “सर्वप्रातिपदिकेभ्य किब्वा वक्तव्य ' इति क्विपि “सनाद्य न्ता ? इति धातुत्वात् कर्तरि क्विपि सुबुत्पत्तिरिति भाव । एवविधात् गोमत्शब्दात् सौं अत्वसन्तस्य ’ इति दीर्घे सति “उगिदचाम्' इति नुमि हल्डयादिलोपे गोमानिति रूप वक्ष्यति । तत्र गोमच्छब्दस्य क्यजन्तस्य आचारक्विबन्तस्य च 'मनाद्यन्ता ' इति धातुत्वात् कथमस्य “उगिदचाम्’ इति नुमागम । अधातोरेव उगितो नुम्विधानादित्याशङ्कय आह ।