पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


चकारान्तप्रकरणम्]
२८५
बालमनोरमा ।


४२४ । नाञ्चेः पूजायाम् । (६-४-३०)

पूजार्थस्याञ्चतेपरुधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राड् प्राञ्चौ प्राञ्च । नलोपाभावादकारलोपो न । प्राञ्च । प्राञ्चा प्राङ्भ्याम् इत्यादि। प्राङ्ग्वपु-प्राङ्क्षु-प्राङ्षु। एव पूजार्थेप्रत्यड्डादय. । ‘क्रुञ्च कौटिल्याल्पीभावयो ' । अस्य 'ऋत्विग्-- '(३७३) आदिना नलोपाभावो ऽपि निपात्यते । क्रुड , कुञ्चौ, कुञ्च । क्रुडभ्यामित्यादि । 'चो. कु'


प्राप्ते । नाञ्चे . ॥ 'अनिदिताम्' इति सूत्रान् उपधाया क्डितीत्यनुवर्तते । 'श्रान्न लोप इत्यतो नलोप इप्यनुवर्तते । तत्र नेति लुप्तषष्टीकम् । तदाह । पूजार्थस्येत्यादिना । पूजाया गम्यत्वे सत्तात्यर्थ । न त्वत्राञ्चुधातो पूजार्थत्वमेव इह विवक्षितम्। अत एव अञ्चित गच्छति इत्यत्र नलोपेो न । अञ्चतेरत्र समाधानमर्थ । समाहितो भूत्वा गच्छतीति गम्यते । ममाधानञ्च अव्याकुलत्वम्, अव्याकुल गच्छतीत्यर्थ । अव्याकुलगमने च पूजा गम्यते । न त्वञ्चतेरेव सोऽर्थ इति “ अञ्चोऽनपादाने' इति सूत्रे भाष्यकैयटयो स्पष्टम् । प्राङिति ॥ प्रपूर्वादञ्चते किन् । प्रकर्षेण पूजनमञ्चेरर्थ । नलोपाभावे प्राञ्च इत्यतस्सुबुत्पतेि । हल्डयादि लोप, सयोगान्तलोप,०तत अनुस्वारपरसवर्णनिवृत्तौ नकारस्य “क्विन्प्रत्ययस्य कु' इति कुत्वेन डकार इति भाव । प्राञ्चाविति । स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भाव । अलुप्तेति ॥ 'उगिदचाम्' इत्यत्र नलोपिनोऽञ्चतेरेव ग्रहणान्नुम् न । ततश्च नकारद्वयश्रवण न शङ्कयामिति भाव । नलोपाभावादिति ॥ शसादावचि “अच ' इति लोपो न भवति । लुप्तनकारस्यैवाञ्चतेस्तत्र ग्रहणादिति भाव । प्राञ्चः इति । प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भाव । ‘नाञ्चे पूजायाम्’ इत्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवण न स्यात् । “अनिदिताम्' इति लोपप्रसङ्गात् । असर्वनामस्थानतया 'उगिदचाम् इति नुमश्चाप्रसक्तेरिति बोध्यम् । प्राङ्भ्यामिति । ‘स्वादिषु' इति पदत्वात् चकारस्य सयोगान्तलोपे अनुस्वारपरसवर्णनिवृत्तौ नकारस्य * क्विन्प्रत्ययस्य’ इति कुत्वेन डकार इति भाव । इत्यादीति ॥ प्राड्भि । प्राञ्चे, प्राङ्भ्याम्, प्राड्भ्य । प्राञ्च, प्राञ्चो, प्राञ्चाम् । प्राञ्चि प्राञ्चो । प्राड़िख्ष्वति ॥ 'डूणो कुक्टुक्' इति वा कुक् । “वयो द्वितीया.' इति पक्षे खश्च बोध्द्य । एवमिति । सुटि पूर्वबदेव रूपाणि । शसादावचि प्रत्यञ्च , प्रत्यञ्चा प्रत्यड्भ्याम्। अमुमुयञ्च । अमुमुयड्भ्याम् । उदश्च । उदड्भ्यामित्यादि ज्ञेयम् । कुञ्च कौटि ल्येति ॥ नलोपाभावोऽपीति ॥ ‘अनिदिताम्’ इति नलोपाभाव, निरुपपदात् क्विन्नपि निपात्यत इत्यर्थ । सति तु नलोपे नकारो न श्रूयेत । ‘उगिदचाम्' इति नुमस्सर्वनामस्थानेऽप्यप्रवृत्ते । वस्तुतस्तु स्वभाविकोपधस्यैव धातुपाठे निर्देशात् नलोपस्यात्र प्रसक्तिरेव नास्ति । अत एव परेश्च घाङ्कयो ' इति सूत्रे भाष्ये कुञ्चेत्यत्र चकारे परे “चो कु ' इति कुत्वमाशङ्कय ऋत्विगादिसूत्रे कुञ्चेति निपातनात् कुत्वन्नेत्युक्त सङ्गच्छते । यदि तु तस्यानुस्वारपरस वर्णभ्या अकारो निर्दिश्येत, तर्हि तस्य “चो कु ’ इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गति