पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१८६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

२८९ । आङि चापः । (७-३-१०५)

आडि ओसि च परे आबन्तस्याङ्गस्यैकार स्यात् । रमया । रमाभ्याम् । रमाभि ।

२९० । याडापः । (७-३-११३)

आप परस्य डिद्वचनस्य याडागम स्यात् । “वृद्धिरेचि' (सू ७२) । रमायै । सवर्णदीर्घ । रमाया । रमाया । रमयो. । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुगादय ।

२९१ । सर्वनाम्रः स्याढड्स्व श्च । (७-३-११४)

आबन्तात्सर्वनाम्र परस्य डित स्याट् स्यादापश्च ह्रस्व । याटोऽप वाद । सर्वस्यै । सर्वस्या । सर्वस्या । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्

{{smaller|पूर्वसवर्णदीर्घ सति कृतपूर्वसवर्णदीर्घात् परत्वेऽपि 'तस्माच्छस ' इति नत्व स्त्रीलिङ्गत्वान्न भवतीत्यर्थे । रमा आ इति स्थित । आङि चाप. ॥ 'ओसि च.' इत्यनुवर्तते । आप इति षष्ठी । अङ्गस्येत्यधिकृतम् । तदन्तविधि । 'बहुवचने झल्येत्' इत्यत एदित्यनुवर्तते । तदाह । आङि ओसि चेत्यादिना ॥ आडिनि टासज्ञा प्राचामित्युक्तम् । अलोऽन्त्यस्य एत्वे अयादेश इत्याह । रमयेति । रमाभिरिति ॥ 'अतो भिस' इति तपरकरणादैस् न । रमा ए इति स्थिते । याडापः ॥ आप इति पञ्चमी । “घेडिति' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । तदाह । आपः परस्येत्यादिना ॥ टित्वादाद्यवयव । वृद्धिरेचीति ॥ या ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भाव । सवर्णेति ॥ डसिडसो रमा अस् इति स्थिते याडागमे “अकस्सवणे दीर्घ ' इति सवर्णदीर्घ इति भाव । यडित्येव सुवचम् । “अतो गुणे' इति पररूपन्तु न । अकारोच्चारणसामर्थ्यात् । रमयोरिति ॥ आडि चाप ? इत्येत्वे अयादेश इति भाव । रमाणामिति ॥ ह्रस्वनद्याप' इत्यत्राब्ग्रहणान्नुटि पर्जन्यवलक्षणप्रवृत्त्या नामि' इति दीर्घे अट् कुप्वाड्' इति णत्वमिति भाव । रमायामिति ॥ रमा इ इति स्थिते “डेरान्नद्यात्रीभ्य ' इत्यामा देशे याडागमे सवर्णदीर्घ इति भाव । ‘न विभक्तौ' इति मस्य नेत्त्वम् । सर्वशब्दा हापि । सर्वाशब्द । सोऽपि प्रायेण रमावत् । डित्सु “याडाप ' इति प्राप्ते।सर्वनाम्नस्स्याडढ३ स्वश्च ॥ “याडाप ' इत्यत आप इति पञ्चम्यन्तमनुवृत्तम् । तेन सर्वनान्न इत्येतद्विशेष्यते । तदन्तविधि । 'घेर्डिति' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । “हूस्वनद्याप ' इत्यत आप इत्यनुवृत्त षष्ठयन्त हृस्व इत्यत्रान्वेति । टित्वादाद्यवयव । याटोऽपवादः इति ॥ येन नाप्राप्तिन्यायादिति भाव । सर्वस्यै इति ॥ सर्वा ए इति स्थिते स्याट्। वकारादाकारस्य ह्रस्वः, वृद्धिरिति भाव । सर्वस्याः इति ॥ डसिडसो सर्वा अ्स् इति स्थिते स्याट्,