ά ο सिद्धान्तकौमुदीसहिता [हल्सन्धि झय: परस्य हस्य पूर्वसवणों वा स्यान् । घोषवती नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेश । वाग्घरेि-वाग्हरि । १२० । शश्छोऽटि । (८-४-६३) पदान्ताज्झय परस्य शस्य छो वा स्यादटि। दस्य चुत्वेन जकारे कृते। १२१ । खरि च ॥ (८-४-५५) खरि झला चर स्यु.। इति जकारस्य चकार । तच्छिव-तचिशव । * छत्वममीति वाच्यम्' (वा ५०२५) । तच्छलोकेन- तच्-श्लेोकेन । अमि किम् । वाक् इच्योतति। वर्तते । तदाह । झयः परस्येल्यादिना ॥ वाग्घरिरित्युदाहरणम्॥ वाच् शब्दश्चकारान्त , कुत्व जश्त्वम्। वाग हरिरिित स्थिते हकारस्य पूर्वसवर्णविधौ गकार पूर्वनिमित्तम्। तत्सवणी क, ख, ग, घ, डा पञ्च । तेषा हकोरेण स्थानिना स्थानत आन्तर्यमविशिष्टम्। आभ्यन्तरप्रयत्नसाम्यन्तु पञ्चानामपि हकारेण स्थानिना न विद्यते । स्पृष्टविवृतप्रयत्नभेदान् । अत बाह्ययत्नत आन्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह ॥ घोपवत इत्यादिना ॥ रथानीभूतेो हकार- घोषनादसवारमहाप्राणाख्ययत्नचतुष्टयवान् । तस्य क ख ग घ डेषु प्रथमतृतीया न भवन्ति । तेषा अल्पप्राणत्वात् । द्वितीय खकारो न भवति । तस्य अघेषश्वासविवारयत्नकत्वात्। चतुर्थसुतु धकार घोषनादसवारमहाप्राणवान् । अतस्स एव घकारो हकारस्य भवतील्यर्थः । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णाभावे तु वाग् हरिरिति । शशिछोऽष्टि ॥ झय इति पञ्चम्यन्तमनुवर्तते ॥ श इति पष्ठ्येकवचनम् । तदाह । झयः परस्य शस्येति ॥ तद् शिव इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वय । केनेत्यत आह । खारेि च ॥ झालाङ्ख्रश्झशोत्यतो झलामिति, अभ्यासे चर्चेत्यतश्धरिति, चानुवर्तते । तदाह । खरि पर इत्यादिना । इति जकारस्य चकार इति ॥ स्थानत आन्तर्यादिति भाव । तत छत्वम् । नतु प्रागित्यपि बोछ्यम् । छत्वस्य चुत्वचत्र्वे प्रत्यसिद्धत्वात्। हलो यमामिति सूत्रस्थभाष्यसम्मतसूत्रकमेतु चुत्वेन जकारे कृते शस्य छत्व ततो जकारस्य चत्र्वम्। नतु छत्वात प्राक् चत्र्व।चत्र्व प्रति छत्वस्यासिद्धत्वात् । तच् छिव इति ॥ स चार्सौ शिवश्रेति तस्य शिव इति वा विग्रह ।। चेो कुरिति कुत्वन्तु न । चुत्वस्यासिद्धत्वात्॥ छत्वममीति वाच्यम् ॥ शश्छोऽटीति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थः । शश्छोऽमीति सूत्र पठनीयमिति यावत्। तच्च श्लोकेनेति ॥ सचासौ श्लोकव, तस्य श्लोक इति वा, विग्रह । लकारस्य अड् बहिर्भूतत्वात् तत्परकस्य शकारस्य सूत्रपाठत छत्वे अप्राप्ते वार्तिकमिदम् । वाक्शच्योततीति ॥ अत्र तु कुत्व भवत्येव । चकारस्य स्वाभाविकतया चुत्वावयवत्वाभावेन आसिद्धत्वाभावात । अत्र
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/89
दिखावट