सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ सिद्धान्तकौमुदीसहिता [हल्सन्धि ११२ । शात ।। (८-४-४४) शात्परस्य तवगैस्य चुत्व न स्यात्। विभ प्रभ । ११३ ।। टुना ष्टुः ॥ (८-४-४१) स्तो: ष्टुना योगेष्टु स्यात्। रामष्षष्ठ । रामष्टीकते। पेटा। तट्टीका। चक्रिण्ढौकसे। ११४ । न पदान्ताटोरनाम् । (८-४-४२) * अनाम्' इति लुप्तषष्टीकं पदम् । पदान्ताट्टवर्गात्परस्यानाम स्तो प्ष्टुर्न स्यात्। षट् सन्त । षट् ते। ‘ पदान्तात्' किम्। ईढ़े। ‘टो ? किम् । रामस् चिनोतीति स्थिते चवर्गयोगात् सकारस्य शकार । शचुना योगे इल्यत्रापि यथासङ्खयाश्रयणे तु इह सकारस्य शकारयोगाभावात् शकारो न स्यादिति भाव । सञ्चिदिति । सत् चित् इति स्थिते, श्चुत्वस्यासिद्धत्वात जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, खरेि चेति चत्र्वेन तस्य चकारे च रूपम् । शार्ङ्गिन् जयेति स्थिते, चवर्गयोगात् नकारस्य श्चुत्व ञकार । शात् ॥ न पदान्तादिति पूर्वसूत्रात् नेल्यनुवर्तते । स्तोश्चुना २चुरिल्यत तोरित, चुरितिचानुवर्तते । नतु सकार३शकारश्व। शादिति दिग्योगे पश्चमी । परस्येल्यष्याहार्यम् । तदाह। शात्परस्येल्यादिना । विश्व इति ॥ विच्छ गतौ । ‘यजयाचयत विच्छ प्रच्छ रक्षोनड्’ इति नड। “छवोश्शठ्? इति छस्य श । डित्वान्न गुण । अत्न शकारयोगात् तवर्गीयनकारस्य श्चुत्वन अकारे प्राते निषेध । पूर्वसूखे शचुना योगे इत्यत्रापि यथासह्वत्याश्रयणे तु इह तवगयिस्य नस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तान्निषेधो व्यर्थस्स्यात्। एवञ्च अस्मादेव निषेधात् पूर्वसूत्रे शचुना योगे इल्यत्र न यथासङ्खयाश्रयणामिति विज्ञायते । प्रश्च इति ॥ प्रच्छ ज्ञीप्सायाम् । पूर्ववत् नडादि । अत्र 'अहिज्या” इति सम्प्रसारणन्न । “प्रश्रचासन्नकाले ' इत्यादिनिर्देशात्। अत्र वर्गपञ्चमाना नासिकास्थानाधिक्येऽपि तत्तद्वर्गीयैरास्ति सावण्यैमिति तुत्यास्यसूत्रे अवेोचाम । ष्टुनाष्टुः ॥ स्तोरिल्यनुवर्त्तते । तदाह । स्तोरिति ॥ अत्रापि स्थान्यादेशाना यथासङ्खयम्॥ नतु छुयोगे इल्यत्र। रामष्षष्ठ इति ॥ रामस् षष्ठ इति स्थिते षकारयोगात् सस्य छुत्वेन ष । अत्रापि छुन्ा योग इत्यत्र न यथासङ्खयमिल्यस्य प्रयोजन दर्शयितु सकारस्य टवर्गेयोगेऽपि उदाहरात । रामष्टीकत इति ॥ टीकृ गतौ । तट्टीकेति ॥ तस्य टीकेति विग्रह । तद् टीका इति स्थिते टुत्वेन दस्य डत्वे चार्वम् । चक्रिणढौकस इति ॥ ढौकृ गतौ । चक्रिन्' ढोकसे इति स्थिते टवर्गयोगात् नस्य टुत्वेन णत्वम्। न पदान्तात्। अनामिति तोरिल्यस्य विशेषणम् ॥ नतु भिन्नविभत्तिकमेतत् ॥ कथ तद्विशेषणमिल्यत आह । अनामिति लुप्तषष्टीकमिति ॥ नामवयवभिन्नस्येल्यर्थ' । स्तोथुरिल्यनुवर्तते। तदाह । पदान्तादित्यादिना । ईट्ट इति ॥ ‘ईड स्तुती’ आत्मनेपदी। ईड् ते इति स्थिते, खरि चेति डस्य चत्र्व, तत परस्य