६८ सिद्धान्तकौमुदीसहिता [अच्सन्धि अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टे. प्लुत स्यात् । स चोदात्त । अभिवादये देवदत्तोऽहम् । आयुष्मान् भव देवदत्त ३ । * स्त्रिया न ? (वा ४८६४) । अभिवादये गाग्र्यहं । आयुष्मती भव गार्गि । नाम गोत्र वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तवैव प्लुत इष्यते । नेह। आयुष्मानेधि । * भोराजन्यविशां वेति वाच्यम्’ (वा ४८६५) । आयुष्मानेधि भो ३ । अायुष्मानेधीन्द्रवर्म ३ न् । आयुष्मानेधीन्द्रपालित ३ ।। ९५ । दूराडूते च ॥ (८-२-८४) दूरात्सम्बोधने यद्वाक्यं तस्य टेः प्लुत स्यात् । सक्तून्पिब देवदत्त ३ ।। प्लुतप्रतिषेधो भवतीति वक्तव्यमिल्यर्थ । ततश्शूद्रविषये उदाहृतम् । स्त्रीविषये वार्तिक विभज्यार्थतस्सङ्कह्राति । खिस्रयान्नेति । स्त्रीविषयकप्रल्यभिवादवाक्ये उत्तेो विधिनैभवर्ताल्यर्थ । अभिवादये गाग्र्यहमिति अभिवादनवाक्यप्रदर्शनम् । आयुष्मती भव गागांति प्रत्याभवादवाक्य, अख न प्लुत । असूयके तु उदाहरण भाष्ये स्फुटम् । यद्यपि गार्गीति नाम न भवति । किन्तु गोत्रमेव । तथापि भाष्ये गार्गीशब्दोदाहरणादेव अभिवादप्रत्यभिवादवाक्ययोनाम्नो गोत्रस्य च विकल्प । तदाह । नाम गोत्रं वेति ॥ अत्र नामशब्देन द्वादशेऽहनि पिता नाम कुर्यादिति विहित नामैव गृह्यते । अत एव आयुष्मान् भव दण्डिन्निल्यादौ प्ळुतो नेति भाष्ये स्पष्टम् । नाम गोत्र वेति परिगणनस्य प्रयोजनमाह । नेहेति । आयुष्मानेधीति ॥ अस्तेस्सिप् हि ध्वसोरिखेत्व हेर्द्धि । श्रसोरल्लोप । अत्न धकारादिकारस्य न प्लुत । अनामत्वादगोत्रत्वाच । भोराजन्यविशाम् ॥ भेोस् शब्दस्य राजन्यवैश्यवाचकनाम्रोश्च टे प्लुतो वा स्यादिति वक्तव्यामल्यथै । भोस् शब्दस्य अप्राप्त इतरयोर्तु नामत्वात् प्रासे विभाषेयम्। तत्र भोस् शब्दे यथा । “आयुष्मानेध भो । आयुष्मानेधि देवदत्त भो ” इति भाष्यम् । अतएव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तर भाइशब्दस्य भवशब्देन एधिशब्दस्य च प्रयोगविकल्पो गम्यते । राजन्य यथा। आयुष्मानेध इन्द्रवर्म ३न्, इन्द्रवर्मन्। वैश्ये यथा। आयुष्मानेधि इन्द्रपालित ३ । इन्द्रपालित इति भाष्यम् । अतएव भाष्यात् प्रल्याभवादवाक्ये शमीन्त ब्राह्मणस्य व्रर्मान्त क्षात्रियस्य पालितान्त वैश्यस्येति विवयोऽपि प्रवर्तन्त इति गम्यते । उत्तभाष्यमन्वादिस्मृतिविरोधाद्रिकल्प । अत्र भाष्ये अपर आहेत्युत्का प्रत्यभिवादे सर्वस्यैव नान्त्री भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुष्प्ष्मानेध भेो इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युत्तम् । दूराद्धूते च ॥ यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारित शब्द बोद्ध्यमानो न शृणोति कित्वधिक प्रयत्नमपेक्षते तद्दूर, हूतमाह्वान भावे क्तः । सम्बोधनमिह विवक्षित । वाक्यस्य टे प्लुत उदात्त इत्यधिकृतम् । तदाह । दूरात्सम्बोधन इत्यादिना ॥ यदि तु आहानमेवात्र विवक्षित स्यात तर्हि एहि देवदत्तेत्यादी आहृानवाचकपदे सलेव स्यातू । सम्बोधन
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/77
दिखावट