सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सिद्धान्तकौमुदीसहिता [अच्सन्धि ८८ । अवङ् स्फोटायनस्य । (६-१-१२३) “ अति' इति निवृत्तम । अचि परे पदान्त गोरवड् वा स्यात् ।। गवाग्रम । 6 पदान्ते ' किम् । गवि । व्यवस्थितविभाषया गवाक्ष । ༤༽ ८९ । इन्द्रे च ॥ (६-१-१२४) गोरवङ् स्यादिन्द्रे गवेन्द्र । अथ प्रकृतिभाव । ९० । प्लुतप्रगृह्या अचि नित्यम् ॥ (६-१-१२५) प्लुता प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्य प्रकृत्या स्यु । एहि कृष्ण३ एव डासिङसोश्चेति तत्र पूर्वरूपारम्भात् । अवङ स्फोटायनस्य । अतीति निवृत्तमिति ॥ एड पदान्तादित्यत इति शेष । व्याख्यानादिति भाव । पदान्तादिति गोरिोत अचीति चानुवर्तते । स्फोटायनस्य ऋषे मते अवङ् । अन्यस्य तु न । ततश्च विकल्पस्सिद्ध । तदाह । आच पर इत्यादिना ॥ डॅिचेल्यन्तादेश । गावाग्रमिति ॥ गो अग्रामति स्थित गकारादोकारस्यावड, । गव अग्र इति स्थिते सवर्णदीर्घे । न च अग्रशब्दे अकारमञ्च परत्वेनाश्रिल्य प्रवृत्त अवङ् कथन्तद्विघातक सवर्णदीर्घं प्रवर्तयति । सन्निपातपरिभाषाविरोधादित वाच्यम्। सन्निपातपरिभाषाया अनिल्यत्वस्य रामायेल्यत्र वक्ष्यमाणत्वात् । गावीति ॥ गो इ इति स्थिते ओकारस्य पदान्तत्वविरहान्नावड् । नापि पूर्वसूत्रात् प्रकृतिभावपररूपे । किन्तु यणादेश । अतीलनुवृतौ तु गदेश इत्यादि न सिद्धेयेत्। व्यवस्थितेति ॥ काचित् भवतीत्यश एव प्रवर्तते, द्वकचित्तु न भवतीत्यश एव, कचिदुभयमित्येव लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितीविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवड् इत्यथै । इदश्च ** देवत्रातेो गळेो ग्राह इति योगे च सद्विधि । मिथस्तेन विभाष्यन्ते गवाक्षस्सशितव्रत ” इति शाच्छीरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति ॥ गवा किरणानामक्षीवेति विग्रह । अक्ष्णोऽदर्शनादित्यच् । पुस्त्व लोकात् ॥~ ** वातायन गवाक्षस्स्यादिल्यमर ” । इन्द्रे च ॥ गोः अवड् अचील्यनुवर्तते । तदाह । गोरिति ॥ विकल्पनिवृत्यर्थे पुनरारम्भ ।। गवेन्द्र इति ॥ गो इन्द इति स्थिते अवड आद्गुण । अथ प्रकृतिभाव इति ॥ निरूप्यत इति शेषः । प्लुतप्रगृह्या । वक्ष्यन्त इति ॥ दूरादूते चेत्यादिना ईंद्देदित्यादिना चेत्यर्थ । प्रकृत्येति ॥ प्रकृत्यान्त पादमित्यतस्तदनुवृत्तेरिति भाव । प्रकृत्या स्वभावेनावस्थितास्स्युरित्यर्थः । सन्धयो न भवन्तीति यावत् । एहि कृष्ण ३ अत्रेति ॥ दूराद्धूतेचेति णकारादकार प्लुत । तस्य अकारे न सवर्णदीर्घ. । हरी एताविति । ईदूदेदिति रेफादीकार प्रगृह्य तस्य यणादेशो न